________________
चतुर्थ उद्देशः ।
भाष्यगाथाः ४८९७ - ४९०५ ] १३१३ म्परं वा छिन्दता तीर्थकर - गणधराणामाज्ञाभङ्गः कृतो भवति । तं छिन्दन्तं दृष्ट्वाऽन्येऽपि छिन्दन्ति इत्यनवस्था । एते तिष्ठन्तश्छेदनादिकं सिट्टरं कुर्वन्ति न स्वाध्यायम्' एवं शय्या -
रादौ चिन्तयति मिथ्यात्वम् । विराधना द्विविधा – संयमे आत्मनि च । तत्र वस्त्रादौ छिद्यमाने षट्पदिकादयो यद् विनाशमनुर्वते सोऽसंयमः, संयमविराधनेत्यर्थः । अथ छेदनं कुर्वतो हस्तस्य पादस्य वा छेदो भवति तत आत्मविराधना, तत्र च परिताप- महादुःखादिनि-5 ष्पन्नं पाञ्चिकान्तं प्रायश्चित्तम् ॥ ४९०१ ॥ अथ शुद्धं शुद्धेन प्रायश्चित्तमाह
अनुसिर झुसिरे लहुओ, लहुगा गुरुगो य होंति गुरुगा य । संघट्टण परितावण, लहु-गुरुगऽतिवायणे मूलं ॥ ४९०२ ॥ अशुषिरमनन्तरं छिनत्ति मासलघु, शुषिरमनन्तरं छिनत्ति चतुर्लघुकम् । अशुषिरं परम्परं छिदन्तो गुरुको मासः, शुषिरं परम्परं छिन्दतश्चतुर्गुरुकाः भवन्ति । शुषिरे बहुतरदोषस्वाद 10 गुरुतरम्, परम्परे शस्त्रग्रहणे संक्लिष्टतरं चित्तमिति कृत्वा गुरुतमं प्रायश्चित्तम् । एवं शुद्धपदे षट्कायविराधनाभावे मन्तव्यम् । अशुद्धपदे पुनरिदमपरं प्रायश्चित्तम् - "संघट्टण " इत्यादि, छेदनादिकं कुर्वन् द्वीन्द्रियान् सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, उपद्रावयति षड्लघु; त्रीन्द्रियान् सङ्घयति चतुर्गुरु, परितापयति षड्लघु, उपद्रावयति षड्गुरु; चतुरिन्द्रियान् सङ्घयति षड्लघु, परितापयति षड्गुरु, उपद्रावयति छेदः; पञ्चेन्द्रियान् सङ्घट्टयति षङ्गुरु, परिता- 15 पयति छेदः, पञ्चेन्द्रियमतिपातयति मूलम् । एवमिन्द्रियानुलोम्येन सविस्तरं यथा पीठिका - यामुक्तं ( गा० ४६१) तथैवात्रापि मन्तव्यम् ॥ ४९०२ ।। अथवा द्वितीयोऽयमादेशः - अनुसरणंतर लहुओ, गुरुगो अ परंपरे असिरम्मि ।
सिराणंतरें लहुगा, गुरुगा तु परंपरे अहवा || ४९०३ ॥
अशुषिरेऽनन्तरे लघुको मासः, अशुषिरे परम्परे गुरुको मासः । शुषिरेऽनन्तरे चतुर्लघु, 20 शुषिरे परम्परे चतुर्गुरुकाः । अथवेति प्रायश्चित्तस्य प्रकारान्तरताद्योतकः ॥ ४९०३ ॥ एवं तावत् छेदनपदं व्याख्यातम् । अथ भेदनादीनि पदानि व्याख्यातुकाम इदमाहएमेव सेस वि, कर- पादादी अनंतरं होई |
जं तु परंपरकरणं, तस्स विहाणं इमं होति ।। ४९०४ ॥
'एवमेव' छेदनवत् ‘शेषेष्वपि ' भेदनादिषु पदेषु प्रायश्चित्तं वक्तव्यम् । नवरं कैर- पादाभ्याम् 25 आदिशब्दाद् जानु-कूर्परादिभिः शरीरावयवैः क्रियमाणं भेदनादिकमनन्तरं भवति । त् भेदनादेः परम्पराकरणं तस्य विधानमिदं भवति ॥ ४९०४ ॥ तद्यथा-----
कुत्रणयमादी भेदो, घंसण मणिमादियाण कट्ठादी ।
पट्टवरादी पीसण, गोष्फण- धणुमादि अभिघातो ।। ४९०५ ।।
1
"कुवणओ" लगुडस्तेन आदिशब्दाद् उपल-लेष्टुकादिभिर्वा घटादेः 'भेद:' भेदनम् द्विधा 30 त्रिधा वा च्छिद्रपातनमित्यर्थः, एतत् परम्पराभेदनमुच्यते । एवं घर्षणं मणिकादीनां मन्त
-
१ 'वते सा संयमविराधना । अथ भा० ॥ २ स्तरं प्रायश्चित्तं यथा कां० ॥ ३ 'करेणवा पादेन वा आकां० ॥ ४ 'नं भवति । घर्ष' कां० ॥ ५ च्छिद्रं पातयतीत्यर्थः । घर्ष' भा० ॥
For Private & Personal Use Only
Jain Education International
ܘ
www.jainelibrary.org