________________
१३१२
भावहस्तेनाधिकारः ॥ ४८९६ ॥ अथ कर्मपदं व्याचष्टे -
>
नामं ठवणाकम्मं, दव्वकम्मं च भावकम्मं च | दव्वम्मि तुण्णदसिता, अधिकारो भावकम्मेणं ॥ ४८९७ ॥ नामकर्म स्थापनाकर्म द्रव्यकर्म भावकर्म चेति चतुर्धा कर्मणो निक्षेपः । तत्र नाम - स्थापने B क्षुण्णे । द्रव्यकर्म ज्ञशरीर-भव्यशरीरव्यतिरिक्तं तुन्नणं वा दशिकानां बन्धनं वा, उपलक्षणमिदम् तेन कुम्भकार- रथकारादिगतमपि द्रव्यकर्म मन्तव्यम् । यद्वा व्यतिरिक्तं द्रव्यकर्म द्विधा — कर्मद्रव्यं नोकर्मद्रव्यं च । कर्मद्रव्यं ज्ञानावरणादिकर्मपर्यायमनापन्नाः कर्म वर्गणापुद्गलाः, यद्वा यद् ज्ञानावरणादिकं कर्म बद्धं न तावदुदयमागच्छति तत् कर्मद्रव्यम् । नोकर्मद्रव्यं आकुञ्चन-प्रसारणोत्क्षेपणा-वक्षेपण-गमनभेदात् पञ्चधा । भावकर्म द्विधा - आगमतो 10 नोआगमतश्च । आगमतः कर्मपदार्थज्ञाता उपयुक्तः, नोआगमतोऽष्टविधो ज्ञानावरणादिकर्म - णामुदयः । एषां मध्येऽत्र कतमेनाधिकारः ? इति चेद् अत आह— अधिकारोऽत्र 'भावकर्मणा' मोहोदयलक्षणेन । शेषास्तु शिष्यमतिव्युत्पादनार्थं प्ररूपिताः । ततो भावहस्तेन यत् कर्म क्रियते तद् हस्तकर्म भण्यते इति प्रक्रमः || ४८९७ ॥ अथ भावकर्मैव व्याचिख्यासुरराहदुविहं च भावकम्मं, असंकिंलिट्टं च संकिलिङ्कं च ।
ठप्पं तु किलि, अकिलिङ्कं तु वोच्छामि ॥ ४८९८ ॥ द्विविधं च भावकर्म, तद्यथा - असंक्लिष्टं च संक्लिष्टं च । चशब्दौ स्वगतानेक भेदसूचकौ तत्र संक्लिष्टं 'स्थाप्यं' पश्चाद् वक्ष्यते । असंक्लिष्टं तु साम्प्रतमेव वक्ष्यामि ॥ ४८९८ ॥ यथाप्रतिज्ञातमेव प्रमाणयति -
15
20
25
सनिर्युक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ अनु० प्रकृते सूत्रम् १
छेदणे भेयणे चेव, घंसणे पीसणे तहा ।
अभिघाते सिणेहे य, काये खारे त्ति यावरे ॥ ४८९९ ॥
छेदनं भेदनं चैव घर्षणं पेषणं तथा अभिघातः स्नेहश्च कायः क्षार इति चापरः । एवमसंक्लिष्टस्य कर्मणोऽष्टौ भेदा भवन्ति ॥ ४८९९ ॥ एतानि च छेदनादीनि शुषिरे वा कुर्यादशुषिरे वा । पुनरेकैकं शुषिरच्छेदनादि द्विधा । कथम् ? इति चेद् उच्यते
30
एकेकं तं दुविहं, अनंतर परंपरं च णायव्वं । [ पि.नि. २७९] अट्ठाणा य पुणो, होति अणट्ठाय मासलहुं ॥। ४९०० ॥
यदशुषिरस्य शुषिरस्य वा छेदनं तदेकैकं द्विविधम् — अनन्तरं परम्परं च ज्ञातव्यम् । पुनरेकैकं द्विधा – अर्थादनर्थाच्च, सार्थकं निरर्थकं चेत्यर्थः । अनर्थकं छेदनादिकं कुर्वतो मासलघु, असामाचारी निष्पन्नमिति भावः ॥। ४९०० ॥
कथं पुनः छेदनमनन्तरं परम्परं वा सम्भवति ? इत्याह
Jain Education International
नह-दंतादि अनंतर, पिप्पल्लमादी परंपरे आणा |
छपगादि असंजमें, छेदे परितावणातीया ॥। ४९०१ ॥
नखैर्दन्तैः आदिग्रहणात् पादेन वा यत् छिद्यते तदनन्तरं छेदनमुच्यते । पिष्पल केन आदिग्रहणात् पाइल्लक-छुरिका - कुठारादिभिर्यत् छिद्यते तत् परम्परच्छेदनम् । एवमनन्तरं पर
For Private & Personal Use Only
www.jainelibrary.org