________________
भाष्यगाथाः ४८८७-९६ ]
चतुर्थ उद्देशः ।
भव्वस्स अट्ठ पयडी, उग्घातिम एतरा इयरे ॥ ४८९२ ॥ कालत उद्धातिकं सान्तरं प्रायश्चित्तस्य दानम्, अनुद्धातिकं निरन्तरदानम् । तुशब्दाद् लघुमासादिकमुद्धातिकम्, गुरुमासादिकमनुद्धातिकम् । अथवा कालतः समयोऽनुद्धातिको भवति, खण्डशः कर्तुमशक्यत्वात् ; आवलिकादय उद्धातिकाः, खण्डयितुं शक्यत्वात् । भावत उद्धातिका भव्यस्याष्टौ कर्मप्रकृतयः, उद्घातयितुं शक्यत्वात् । ' इतरस्य' अभव्यस्य सत्कारता 5 एव 'इतराः' अनुद्धातिकाः || ४८९२ ॥ कुतः ? इति चेद् उच्यतेजेण खवणं करिस्सति, कम्माणं तारिसी अभव्त्रस्स ।
णय उपज भावो, इति भावो तस्सऽणुग्यातो ॥ ४८९३ ॥
'येन' शुभाध्यवसायेन 'कर्मणां ' ज्ञानावरणादीनां क्षपणमसौ करिष्यति स तादृशो भावोऽभव्यस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुद्धातः, कर्मणामुद्धातं कर्तुमसमर्थः, अत एव 10 तस्य कर्माणि अनुद्धातिकानि भण्यन्ते । अत्र च प्रायश्चित्तानुद्धातिकेनाधिकारः ॥ ४८९३ ॥ तच्च कुत्र भवति ? इत्याह
-
-
हत्थे य कम्म मेहुण, रातीभत्ते य होंतऽणुग्धाता ।
एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ।। ४८९४ ॥
हस्तकर्मकरणे मैथुनसेने रात्रिभक्ते, एतेषु त्रिषु सूत्रोक्त पदेषु ' अनुद्धातिकानि' गुरुकाणि 18 प्रायश्चित्तानि भवन्ति । तत्र हस्तकर्मणि मासगुरुकम्, मैथुन - रात्रिभक्तयोश्चतुर्गुरुकाः । एतच्च प्रायश्चित्तं यदा यत्र स्थाने भवति तत् पुरस्ताद् व्यक्तीकरिष्यते । अथ 'एतेषां ' हस्तकर्मादीनां त्रयाणामपि पदानां 'प्रत्येकं' पृथक् पृथक् प्ररूपणां वक्ष्ये ॥ ४८९४ ॥
यथाप्रतिज्ञातमेव निर्वाहयितुकामो हस्तकर्मप्ररूपणां तावदाह
Jain Education International
नामं ठवण हत्थो, दव्वहत्थो य भावहत्थो य । [नि.गा. ४९९-५१३] 20 दुविहो यदव्वत्थो, मूलगुणे उत्तरगुणे य ॥ ४८९५ ॥
नामहस्तः स्थापनाहस्तो द्रव्यहस्तो भावहस्तश्चेति चतुर्धा हस्तः । तत्र नाम - स्थापनाहस्तौ गतार्थौ । द्रव्यहस्तो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्विविधो भवति, तद्यथा - मूलगुण निर्वर्तित उत्तरगुण निर्वर्तितश्च । तत्र यो जीवविप्रमुक्तस्य शरीरस्य हस्तः स मूलस्य - जीवस्य गुणेनप्रयोगेण निर्वर्तित इति मूलगुणनिर्वर्तितः, यस्तु काष्ठ - चित्र - लेप्यकर्मादिषु हस्तः स उत्तर - 25 निर्वर्तित उच्यते ॥ ४८९५ ।। अथ भावहस्तमाह
----
१३११
जीवो उ भावहत्थो, णेयव्वो होइ कम्मसंजुत्तो ।
वितियो विय आदेसो, जो तस्स विजाणओ पुरिसो ॥। ४८९६ ।। “जीवो” त्ति विभक्तिव्यत्ययाद् - यो जीवस्य हस्तः 'कर्मसंयुक्तः ' आदान- निक्षेपादिक्रियायुक्तः स नोआगमतो भावहस्त उच्यते । द्वितीयोऽपि चात्रादेशः समस्ति – यः 'तस्य' 30 हस्तस्य 'विज्ञायकः' तदुपयुक्तः पुरुषः सोऽपि भावहस्तः, आगमत इत्यर्थः । अत्र नोआगमतो
१ ताटी० मो०डे० विनाऽन्यत्र - वक्ष्ये ॥ ४८९३ ॥ तद्यथा - नामं कां० ॥ दन्तर्गतः पाठः भा० नास्ति ॥ ३ 'हस्तो ज्ञातव्यः । द्वि° कां० ॥
For Private & Personal Use Only
२ एत
www.jainelibrary.org