SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १३१० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १ दव्वे सञ्चित्तादी, सचित्तं तत्थ होइ तिविहं तु । दुपय चतुप्पद अपदं, परूवणा तस्स कायव्वा ॥ ४८८७ ॥ द्रव्यत्रिकं सचित्ता-ऽचित्त-मिश्रभेदात् त्रिधा । तत्र सचित्तत्रिकं भूय॑स्त्रिविधं भवति । तद्यथा-द्विपदत्रिकं चतुष्पदत्रिकं अपदत्रिकम् । तस्य च सप्रभेदस्यापि परूपणा कर्तव्या। 5 सा च यथा सचित्तैककस्य कृता तथैवावगन्तव्या ॥४८८७ ॥ परमाणुमादियं खलु, अच्चित्तं मीसगं च मालादी। तिपदेस तदोगाढं, तिण्णि व लोगा उ खेत्तम्मि ॥ ४८८८ ॥ परमाणुत्रयम् , आदिशव्दाद् द्विप्रदेशिकत्रयं यावदनन्तप्रदेशिकत्रयम् , एतदचित्तत्रिक द्रष्टव्यम् । मिश्रत्रिकं तु मालात्रयं मन्तव्यम् , तत्र हि पुष्पाणि सचितानि सूत्रमचित्तमिति कृत्वा । 10 आदिग्रहणेन सालङ्कारपुरुषत्रयमित्यादि गृह्यते । क्षेत्रत्रयम्-त्रय आकाशप्रदेशाः, "तदोगाढं" ति तेषु वा-त्रिषु आकाशप्रदेशेषु अवगाढं द्रव्यं क्षेत्रत्रयम् , 'त्रयो वा लोकाः' अधोलोकतिर्यग्लोको लोकलक्षणाः क्षेत्रत्रयमुच्यते ॥ ४८८८ ॥ तिसमय तद्वितिगं वा, कालतिगं तीयमातिणो चेव । भावे पसत्थमितरं, एकेकं तत्थ तिविहं तु ॥ ४८८९ ॥ 15 कालत्रयं त्रयः समयाः, "तद्वितिगं व" त्ति त्रिसमयस्थितिकं वा द्रव्यं कालत्रयम् , अथवा अतीता-ऽनागत-वर्तमानकाला एव कालत्रयम् । भावत्रयं प्रशस्तम् 'इतरद्' अप्रशस्तं चेति द्विधा । पुनरेकैकं त्रिविधम् । तत्र ज्ञानं दर्शनं चारित्रं चेति प्रशस्तम् , मिथ्यात्वमज्ञानमविरतिश्चेत्यप्रशस्तम् । अविरतिरपि हस्तकर्म-मैथुन-रात्रिभक्तप्रतिसेवाभेदादिह प्रस्तावे त्रिविधा । अत्र चौनयैवाधिकारः ॥४८८९॥ व्याख्यातं त्रय इति पदम् । अथानुद्धातिकपदं व्याख्यातुमाह20 उग्घातमणुग्घाते, निक्खेवो छबिहो उ कायव्यो। नाम ठवणा दविए, खेत्ते काले य भावे य ॥ ४८९० ॥ इह इखत्वाद् दीर्घत्ववद् उद्धातिकादनुद्घातिकस्य प्रसिद्धिरिति कृत्वा द्वयोरप्युद्धातिका-ऽनुद्धातिकयोः षड्विधो निक्षेपः कर्तव्यः । तद्यथा-नामनि स्थापनायां द्रव्ये क्षेत्रे काले भावे चेति ॥४८९०॥ तत्र नाम-स्थापने गतार्थे । द्रव्यादिविषयमुद्धातिकमनुद्धातिकं च दर्शयति उग्घायमणुग्घाया, दवम्मि हलिद्दराग-किमिरागा। खेत्तम्मि कण्हभूमी, पत्थरभूमी य हलमादी ॥ ४८९१॥ 'द्रव्ये' द्रव्यत उद्घातिको हरिद्रारागः, सुखेनैवापनेतुं शक्यत्वात् ; अनुद्धातिकः कृमिरागः, अपनेतुमशक्यत्वात् । क्षेत्रत उद्घातिकं कृष्णभूमम् , अनुदातिका प्रस्तरभूमिः । कुतः ? इत्याह-"हलमादि" त्ति हल-कुलिकादिभिः कृष्णभूममुद्धातैयितुं-क्षोदयितुं शक्यम् , प्रस्तर30 भूमिरशक्या ॥ ४८९१ ॥ तथा कालम्मि संतर णिरंतरं तु समयो य होतऽणुग्घातो। १यस्त्रिधा भ° कां० ॥ २ चाविरत्याऽधि भा. कां० । "एत्य अविरईए अहियारो" इति चूर्णी विशेषचूर्णौ च ॥ ३ °तयितुं शक्यम्, न प्रस्तरभूमिः ॥ ४८९१ ॥ काल° का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy