SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४८७९-८६ ] चतुर्थ उद्देशः । १३०९ प्रथमत एकस्यैव निक्षेपं कृत्वा ततस्त्रयाणां निक्षेपस्य निष्पत्तिः कर्त्तव्या भवति ॥ ४८८२ ॥ यथाप्रतिज्ञातमेव करोति नामं ठवणा दविए, मातुगपद संगहेक्कए चैव । [ आव.नि. १०३७] जव भावे य तहा, सत्तेएकेकगा होंति ।। ४८८३ ॥ नामैककं स्थापनैककं द्रव्यैककं मातृकापदैककं सङ्ग्रहैककं पर्यवैककं भावैककम् । एतानि 5 कानि भवन्ति ॥ ४८८३ ॥ तत्र नाम-स्थापने क्षुण्णे । द्रव्यैककं पुनर्ज़शरीर भव्य शरीरव्यतिरिक्तमाह दव्वे तिविहं मादुकपदम्मि उप्पण्ण- भूय- विगतादी । सालि विगामीति व, संघोत्ति व संगहेकं तु ॥ ४८८४ ॥ 'द्रव्ये' द्रव्यविषयं एककं त्रिविधम्, तद्यथा – सचित्तमचित्तं मिश्रं च । सचित्तं पुनरपि 10 द्विपद-चतुष्पदा - ऽपदभेदात् त्रिधा । तत्र द्विपदैककं एकः पुरुषः, चतुष्पदैककं एकोऽश्व को हस्ती, अपदैककं एको वृक्ष इत्यादि । अचित्तैककं एकः परमाणुः एकमाभरणम् । मिचैककं सालङ्कार एकः पुरुषः । मातृकापैदे तु चिन्त्यमाने एककं उत्पन्न-भूत-विगतादिकम्, "उप्पन्ने इ वा, विग इवा, धुवे इ वा" इत्यस्य पदत्रयस्यैकतरमित्यर्थः । आदिशब्दाद् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरं पदम् । सङ्घहैककं बहुत्वेऽप्येकवचनाभिधेयम्, यथा - 16 शालिरिति वा ग्राम इति वा सङ्घ इति वा ॥ ४८८४ ॥ अथ पर्यायैककादीनि दर्शयतिदुविकप्पं पाए, आदिहं जण्ण-देवदत्तोति । अणादिट्ठे एक्को त्ति य, पसत्थमियरं च भावम्मि ॥ ४८८५ ॥ पर्यायैककं 'द्विविकल्पं ' द्विप्रकारम्, तद्यथा - आदिष्टमनादिष्टं च, विशेषरूपं सामान्यरूपं चेत्यर्थः । तत्रादिष्टं यज्ञदत्तो देवदत्त इत्यादि, अनादिष्टमेकः कोऽपि मनुष्य इत्यादि । 20 अथवा पर्यायैककं वर्णादीनामन्यतम एकः पर्यायः । भावैककं द्विधा - आगमतो नोआगमतश्च । आगमतो 'ज्ञाता उपयुक्तः । नोआगमतः प्रशस्तम् ' इतरच्च' अप्रशस्तमिति द्विधा । प्रशस्तमौपशमिकादीनामेकतरो भावः, अप्रशस्तमौदयिको भावः । अत्राप्रशस्तभावैककेनाधिकारः, हस्तकर्मादीनामप्रशस्त भावोदयादेव सम्भवात् ॥ ४८८५ ॥ अथ 'त्रिकस्य निक्षेपे कृते द्विकनिक्षेपः कृत एव भवति' इति मन्यमानस्त्रि कनिक्षेपज्ञापनार्थमिदमाह - मंठवणा दविए, खेत्ते काले य गणण भावे य । एसो उ खलु तिगस्सा, निक्खेवो होइ सत्तविहो । ४८८६ ॥ नामत्रिकं स्थापनात्रिकं द्रव्यत्रिकं क्षेत्रत्रिकं कालत्रिकं गणनात्रिकं भावत्रिकं चेति । एष खलु त्रिकस्य निक्षेपः सप्तविधो भवति ।। ४८८६ ॥ नाम-स्थापनात्रिके गतार्थे । द्रव्यत्रिकं ज्ञ भव्यशरीरव्यतिरिक्तं ज्ञापयति १ द्रव्यैककं त्रिविधम्- सचि' भा० ० ॥ २° त् त्रेधा भा० ॥ भा० कां० ॥ ४ द्विधा - आदि मा० कां० ॥ ५ 'मान्यं चे' कां० ॥ द्वि भा० कां० ॥ Jain Education International For Private & Personal Use Only ३ पदैककं तु उत्प ६ तमप्रशस्तं चेति 25 30 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy