________________
१३०८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु० प्रकृते सूत्रम् १
घोष इति गोकुलमिति चैकार्थम् । तत्र तृतीयोद्देशकान्त्यसूत्राभिहितचल क्षेत्रद्वाराव सरायाते गोकुले संवसन् कश्चित् साधुः ' क्षीरादिबृंहिततनुः' प्रचुरदुग्व- दध्याद्युपचितशरीरो मोहोद्भवेन मा हस्तकर्म कुर्यात्, - उपलक्षणमिदम् तेन मा वा मैथुनं प्रतिसेवेत, अतस्तद्वारणार्थमादिसूत्रस्यारम्भः क्रियते ॥ ४८७८ अथ सूत्रात् सूत्रसम्बन्धमाहद्वाणंतरसुत्ते, वुत्तमणुग्धाइयं तु पच्छित्तं ।
"
तेण व सह संबंधो, ऐसो संदट्ठओ णामं ।। ४८७९ ॥
तृतीयद्देश यदधस्तादन्त्यसूत्रं तस्य 'अनन्तरसूत्रे' रोधकाख्ये यो बहिर्भिक्षाचर्यां गतस्तां रजनीं तत्रैव बहिरावसति तस्यानुद्धातिकं प्रायश्चित्तं साक्षादेवोक्तम्, अत्रापि तदेवानुद्धातिकं साक्षादेव सूत्रेणाभिधीयते, एवं 'तेन वा' रोधकसूत्रेण समं 'सन्दष्टको नाम ' सदृशपूर्वापरसूत्र10 द्वयसन्दंश कगृहीत इव सम्बन्धो भवति ॥ ४८७९ ।। अथान्याचार्यपरिपाट्या सम्बन्धमेवाहउवचियमंसा वतियानिवासिणो मा करेज करकम्मं ।
5
15
इति सुत्ते आरंभो, आइल्लपदं च सूएह || ४८८० ॥
तह वि य अठायमाणे, तिरिक्खमाईसु होइ मेहुन्नं । निसिभत्तं गिरिजणे, अरुणम्मि व दुद्धमाईयं ॥ ४८८१ ॥ व्रजिकानिवासिनः सन्तः साधव उपचितमांसाः सञ्जाताः करकर्म मा कार्षुरिति प्रस्तुतसूत्रविषय आरम्भः । अयं च सम्बन्धः " हत्थकम्मं करेमाणे" इतिलक्षणं अत्राद्यपदं सूचयति ॥ ४८८० ॥
'तथापि' करकर्मणाऽप्यतिष्ठति परिणामे तिरश्चादिषु मैथुनप्रति सेवनमपि कदाचिद् भवेद् इति द्वितीयपदसूचा । ब्रजिकायां च गिरियज्ञादौ सायाह्नसङ्खड्यां निशिभक्तं प्रतिसेवेत 20 अरुणोदय वेलायां वा दुग्धादिकं गृह्णीयादिति तृतीयपदसूचा ॥। ४८८१ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या -- ' त्रयः' त्रिसङ्ख्याकाः 'अनुद्धातिकाः' उद्धातो नाम"अद्वेण छिन्नसेसं" ( गा० ) इत्यादिविधिना भागपातः सान्तरदानं वा उद्घातः, स विद्यते येषु ते उद्घातकाः, तद्विपरीता अनुद्धातिकाः 'प्रज्ञप्ताः' तीर्थकरादिभिः प्ररूपिताः । 'तद्यथा' इत्युपप्रदर्शनार्थः । हन्ति हसति वा मुखमावृत्यानेनेति हस्तः- शरीरैकदेशो निक्षेपा25 ऽऽदानादिसमर्थः, तेन यत् कर्म क्रियते तद् हस्तकर्म, तत् कुर्वन् । तथा स्त्री-पुंसयुग्मं मिथुनमुच्यते, तस्य भावः कर्म वा मैथुनम्, तत् प्रतिसेवमानः । तथा रात्रौ भोजनम् - अशनादिकं भुञ्जानः । एष सूत्रार्थः ॥ अथ निर्युक्तिविस्तरमाह
एकस्स ऊ अभावे, कतो तिगं तेण एकगस्सेव । णिक्खेवं काऊणं, णिष्फत्ती होइ तिण्हं तु ॥ ४८८२ ॥
इह त्रयाणां सङ्ख्या प्रथमतो वक्तव्या । तत्रैकस्याभावे कुतस्त्रिकं सम्भवति ? तेन कारणेन १ एतदन्तर्गतः पाठः भा० कां० नास्ति ॥ २ एसो संसओ णाम ताभा० । एसो व सदट्टओ भणिओ कां० ॥ ३ 'चर्यागत भा० मो० ॥ ४ अमुं च सम्बन्धं "ह" भा० ॥ ५ थुनं प्रतिसेवेत इति द्वि भा० ॥ ६ स्तरः- एक्क° कां० ॥ ७ वति ? अतः प्र० भा०कांचा
For Private & Personal Use Only
30
Jain Education International
www.jainelibrary.org