________________
भाष्यगाथाः ६०४८-५४] पञ्चम उद्देशः।
१५९७ एषां त्रयाणामपि पुलाकानां ग्रहणे आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया भवति । तथा गन्धपुलाके पीते सति मद्यगन्धमाघ्राय मदविह्वलां वा तां दृष्ट्वा लोकः खिंसां कुर्यात् । धान्यपुलाके पुनराहारिते वायुकायः प्रभूतो निर्गच्छति, ततो यदि भिक्षार्थं प्रविष्टा तस्य निरोधं करोति तदा ग्लानत्वं भवेत् , अथ वायुकायं करोति तत उड्डाहो भवेत् , उड्डाहिता च लज्जया प्रतिगमनादीनि कुर्यात् । एवं रसपुलाकेऽपि क्षीरादौ पीते भिक्षां प्रविष्टा यदि संज्ञामागच्छन्तीं निरुणद्धि ततो ग्लानत्वम् , अथ न निरुणद्धि ततो व्युत्सृजन्ती केनापि दृष्टा लज्जया प्रतिगमनादीनि कुर्यात् ॥ ६०५१ ॥ किञ्च
वसहीए वि गरहिया, किमु इत्थी बहुजणम्मि सक्खीवा ।
लाहुकं पिल्लणया, लज्जानासो पसंगो य ॥ ६०५२ ॥ 'स्त्री' निर्ग्रन्थी 'सक्षीबा' मद्यमदयुक्ता वसतावपि वसन्ती गर्हिता किं पुनर्बहुजने पर्यटन्ती ? |10 तथाहि-तां मदविहला आपतन्तीं प्रपतन्ती आलमालानि च प्रलपन्तीं दृष्ट्वा लोकः प्रवचनस्य “लाहुकं" लाघवं कुर्यात्--अहो! मत्तवालपाखण्डमिदमित्यादि । मदेन चाचेतना सञ्जाता सती प्रार्थनीया सा भवति । तत उद्धामकादयस्तस्याः 'प्रेरणां' प्रतिसेवनां कुर्युः । मदवशेन च यदपि तदपि प्रलपन्त्या लज्जानाशो भवेत् । ततश्च प्रतिसेवनादावपि प्रसङ्गः स्यात् ॥ ६०५२॥ घुन्नइ गई सदिट्ठी, जहा य रत्ता सि लोयण-कवोला ।
15 अरहइ एस पुताई, णिसेवई सज्झए गेहे ॥ ६०५३ ॥ तां तथामदभावितां दृष्ट्वा लोको ब्रूयात्-यथाऽस्या गतिः 'सदृष्टिः' दृष्टियुक्ता घूर्णते, यथा चास्या लोचन-कपोला रक्ता दृश्यन्ते तथा नूनमहत्येषा 'पुताकी' देशीवचनत्वाद् उद्धामिका ईदृशीं विडम्बनामनुभवितुम् या 'सध्वजगेहानि' कल्पपालगृहाणि निषेवते ॥६०५३॥ त्रिविधेऽपि पुलाके यथायोगममी दोपाः--
20 छकायाण विराहण, वाउभय-निसग्गओ अवन्नो य ।
उज्झावणमुझंती, सइ असइ दवम्मि उड्डाहो ॥ ६०५४ ॥ मंदविह्वला पण्णामपि कायानां विराधनां कुर्यात् । धान्यपुलाकेन क्षीरेण वा भुक्तेन वायुकाय उभयं च-संज्ञा-कायिकीरूपं समागच्छेत् , ततो भिक्षां हिण्डमाना यदि तेषां निसर्ग करोति ततः प्रवचनस्यावों भवेत् , परावग्रहे वा व्युत्सृष्टं पुरीषादिकमवग्रहवामिनस्तस्याः 25 पार्थाद् उज्झापयन्ति खयमेव वा ते गृहस्था उज्झन्ति । "सइ असइ दवम्मि उड्डाहु" ति अस्ति द्रवं परं कलुषं स्तोकं वा नास्ति वा मूलत एव द्रवं तेत उभयथाऽपि प्रवचनस्योड्डाहो
१ अत्र क्षीयो मत्त इति यद्यप्येकार्थी शब्दो तथाप्यत्र क्षीवशब्दो भावप्रधानतया मदपर्यायः, ततोऽयमर्थः-'स्त्री' कां० ॥२ °ला । रत्त त्ति एस सुत्ता, णिसेवई तामा० ॥ ३ हानि' ध्वजः-कल्पपालस्तेन सहितानि गृहा का ० । “सज्झया कल्लालगिहा" इति चूों विशेषचूर्णां च ॥ ४ गन्धपुलाके पीते सति मदविह्वला सा निर्ग्रन्थी षण्णामपि कायानां विराधनां कुर्यात् । वल्लादिरूपधान्यपुलाकेन क्षीरेण वा भुक्तेन यथाक्रमं वायु को० ॥ ५ तत एवं संज्ञाव्युत्सर्गानन्तरं सति असति बा दवे उभ कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org