________________
१५९६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पुलाकभक्तप्रकृते सूत्रम् १२
लोकोत्तरिकाणाम्-अपरिणामका-ऽतिपरिणामकानां प्रत्ययार्थ सूत्रमिदमनन्तरमुक्तम् , मा तेषां बहिर्भावो भवेदिति कृत्वा । अयं तु व्रतिनीविषयः प्रस्तुतसूत्रस्यारम्भः 'उभये' लोके लोकोत्तरे च यशःसंरक्षणार्थ क्रियते ॥ ६०४७ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थ्या गृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रवि5ष्टया 'अन्यतरद्' धान्य-गन्ध-रसपुलाकानां वल्ल-वि कट-दुग्धादिरूपाणामेकतरं पुलाकभक्तं प्रतिगृहीतं स्यात् , सा च तेनैव भुक्तेन 'संरतरेत्' दुर्भिक्षाद्यभावाद् निर्वहेत्, ततः कल्पते तस्यास्तदिवसं तेनैव भक्तार्थेन 'पर्युषितुं' निर्वाहयितुम् । नो "से" तस्याः कल्पते द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुम् । अथ सा न संस्तरेत् ततः कल्पते तस्या द्वितीयमपि वारं गृहपतिकुलं पिण्डपातपतिज्ञया प्रवेष्टुमिति सूत्रार्थः ॥ 10 अथ नियुक्ति-भाष्यविस्तरः--
तिविहं होइ पुलागं, धण्णे गंधे य रसपुलाए य ।
चउगुरुगाऽऽयरियाई, समणीणुद्दद्दरग्गहणे ॥ ६०४८॥ · त्रिविधं पुलाकं भवति, तद्यथा---धान्यपुलाकं गन्धपुलाकं रसपुलाकं चेति । एतत् सूत्र
माचार्यः प्रवर्तिन्या न कथयति चतुर्गुरु, आदिशब्दात् प्रवर्तिनी निर्ग्रन्थीनां न कथयति 15 चतुर्गुरु, निर्ग्रन्थ्यो न प्रतिशृण्वन्ति मासलघु । श्रमणीनामपि ऊर्द्धदरे-सुभिक्षे पुलाकं गृह्यतीनां चतुर्गुरु ॥ ६०४८ ॥ अथ त्रीण्यपि धान्यपुलाकादीनि व्याचष्टे
निष्फाबाई धन्ना, गंधे वाइग-पलंडु-लसुणाई ।
खीरं तु रसपुलाओ, चिंचिणि-दक्खारसाईया ॥ ६०४९ ॥ निष्पावाः-वल्लास्तदादीनि धान्यानि धान्यपुलाकम् । तथा वाइगं-विकटं पला डु-लशुने १)च-प्रतीते तदादीनि यान्युत्कटगन्धानि द्रव्याणि तद् गन्धपुलाकम् । यत् पुनः क्षीरं यो वा चिञ्चिणिकायाः-अम्लिकाया रसो द्राक्षारसो वा आदिशब्दाद् अपरमपि यद् भुक्तमतिसारयति तत् सर्वमपि रसपुलाकम् ॥ ६०४९ ॥ अथ किमर्थमेतानि पुलाकान्युच्यन्ते ? इयाह
आहारिया असारा, करेंति वा संजमाउ णिस्सारं ।
निस्सारं व पवयणं, दहूं तस्से विणिं विति ॥ ६०५०॥ 26 इह पुलाकमसारमुच्यते, तत आहारितानि सन्ति वल्लादीनि यतोऽसाराणि ततः पुलाकानि
भण्यन्ते । 'संयमाद्वा' संयममङ्गीकृत्य यतः क्षीरादीनि निःसारां साध्वीं कुर्वन्ति ततस्तान्यपि पुलाकानि । प्रवचनं वा निःसारं यतः 'तत्सेविनी' तेषां-विकटादीनां सेवनशीलां संयतीं दृष्ट्वा जना ब्रुवते ततस्तानि पुलाकानि उच्यन्ते ॥ ६०५० ॥ एषु दोषानाह--
आणाइणो य दोसा, विराहणा मजगंध मय खिंसा। 30 निरोहेण व गेलण्णं, पडिगमणाईणि लज्जाए ॥६०५१ ॥
१"उत्तरिय" त्ति पदैकदेशे पदसमुदायोपचाराद् लोको कां० ॥ २त्रम् 'इदम्' परिहारिकविषयमनन्तर का ॥ ३ ग । उद्ददरे निग्गंधीण पहगे चउगुरु आयरिय. मादी॥ ताभा०॥ ४°त्याशझ्याह को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org