________________
१५९२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ व्यवहारप्रकृते सूत्रम् ४१ _
व्य व हा र प्रकृतम् सूत्रम्
परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, से य आहच्च अइक्कमिजा, तं च थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसिं वा अंतिए सुच्चा, ततो पच्छा तस्स अहालहुसए नाम ववहारे
पट्टवेयव्वे सिया ४१॥ अस्य सम्बन्धमाह
निकारणपडिसेवी, अजयणकारी व कारणे साहू ।
अदुवा चिअत्तकिच्चे, परिहारं पाउणे जोगो ॥६०३३ ॥ निष्कारणे गात्रम्रक्षणादिकं प्रतिसेवितुं शीलमस्येति निष्कारणप्रतिसेवी सः, तथा कारणे वा यो 'अयतनाकारी' पूर्वोक्तयतनां विना गात्रम्रक्षणविधायी साधुः, अथवा यः 'त्यक्तकृत्यः' नीरुग्भूतोऽपि तदेव बृक्षणादिकमुपजीवति स परिहारतपः प्राप्नुयादिति 'योगः' सम्बन्धः ॥ ६०३३ ॥ 16 अनेन सम्बन्धेनायातस्यास्य व्याख्या-परिहारकल्पस्थितो भिक्षुः 'बहिः' अन्यत्र नगरादौ 'स्थविराणाम्' आचार्याणामादेशेन वैयावृत्यार्थ गच्छेत् । किमुक्तं भवति ?--अन्यस्मिन् गच्छे केषाश्चिदाचार्याणां वादी नास्तिकादिक उपस्थितः, तेषां च नास्ति वादलब्धिसम्पन्नः, ततस्ते येषामाचार्याणां स परिहारिकस्तेषामन्तिके सङ्घाटकं प्रेषयन्ति, स च सङ्घाटको ब्रूते-वादिनं कमपि मुत्कलयत । एवमुक्ते ते आचार्याः परिहारिकं परवादिनिग्रहक्षमं मत्वा तत्र प्रेषयन्ति । 20 ततस्तदादेशादसौ परिहारतपो वहमान एव तत्र गच्छेत् । इदं च महत् प्रवचनस्य वैयावृत्यं
यद् अग्लान्या परवादिनिग्रहणम् , ततस्तदर्थं गतः सः' परिहारिकः “आहच्च" कदाचिद् 'अतिक्रामेत्' पादधावनादिकं प्रतिसेवेत, 'तच्च' प्रतिसेवनं 'स्थविराः' मौलाचार्या आत्मनः 'आगमेन' अवध्याद्यतिशयज्ञानेनान्येषां वाऽन्तिके श्रुत्वा जानी युः । 'ततः पश्चात्' तत्परि
ज्ञानानन्तरं 'तस्य' परिहारिकस्य 'यथालघुखको नाम' स्तोकप्रायश्चित्तरूयो व्यवहारः प्रस्थाप26 यितव्यः स्यादिति सूत्रार्थः ॥ अथ भाष्यम्
परिहारिओ य गच्छे, आसण्णे गच्छ वाइणा कजं ।
आगमणं तहिँ गमणं, कारण पडिसेवणा वाए ॥ ६०३४ ॥ परिहारिकः क्वापि गच्छे विद्यते, कचिच्चासन्नेऽन्यगच्छे वादिना कार्यमुत्पन्नम् , ततः 'तत्र' गच्छे 'आगमनम्' अन्यगच्छात् सङ्घाटक आगतः, तेन च 'वादी प्रेष्यताम्' इत्युक्ते 30गुरोरादेशात् परिहारतपोवहमानस्यैव तस्य तत्र गमनम् , तत्र गतेन तेन परवादी राजसभास.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org