________________
पञ्चम उद्देशः ।
१५९३
माण्यगाथाः ६०३३ -४० ] मक्षं निष्पिष्टप्रश्न- व्याकरणः कृतः, ततः प्रवचनस्य महती प्रभावना समजनि, तेन च वादस्य कारणेऽमूनि प्रतिसेवितानि भवेयुः || ६०३४ ॥
पाया वदंता व सिया उ धोया, वा-बुद्धिहेतुं व पणीयभत्तं ।
तं वातिगं वा मइ सतहेउं सभाजयट्ठा सिचयं व सुकं ।। ६०३५ ।।
पादौ वा दन्ता वा प्रवचनजुगुप्सा परिहारार्थं धौताः ' स्युः ' भवेयुः । ' प्रणीतभक्तं वा' 5 घृत दुग्धादिकं “बा-बुद्धिहेतुं व" त्ति वाग्घेतोर्बुद्धिहेतोश्च भुक्तं भवेत्, "घृतेन वर्षते मेधा " इत्यादिवचनात् । 'वातिकं नाम' विकटं तद्वा मतिहेतोः सत्त्वहेतोर्वा सेवितं भवेत् । मतिर्नाम - परवाद्युपन्यस्तस्य साधनस्यापूर्वा पूर्व दूषणोहात्मको ज्ञान विशेषः, सत्त्वं- प्रभूत प्रभूततरभाषणे प्रवर्द्धमान आन्तर उत्साहविशेषः । सभाजयार्थं वा शुक्लं 'सिचयं' वस्त्रं प्रावृतं भवेत्, " जिता वस्त्रवता सभा" इति वचनात् || ६०३५ ॥
थेरा पुण जाणंती, आगमओ अहत्र अण्णओ सुच्चा । परिसाए मज्झम्मि, पट्टवणा होइ पच्छित्ते ।। ६०३६ ॥
एवमादिकं तेन प्रतिसेवितं ' स्थविरा:' सूरयः पुनरागमतो जानीयुः, अथवा अन्यतः श्रुत्वा ततस्तस्य भूयः समागतस्य पर्षन्मध्ये प्रायश्चित्तस्य प्रस्थापना कर्तव्या भवति ।। ६०३६ ॥ इदमेव व्याचष्टे -
15
नव-दस- चउदस - ओही मणनाणी केवली य आगमिउं ।
सो चेवणो उ भवे, तदणुचरो वा वि उवगो वा ।। ६०३७ ॥ ये स्थविरा नवपूर्विणो दशपूर्विणश्चतुर्दशपूर्विणोऽवधिज्ञानिनो मनः पर्यायज्ञानिनः केवलज्ञानिनो वा ते 'आगम्य' अतिशयेन ज्ञात्वा प्रायश्चित्तं दद्युः । अन्यो नाम ' स एव' परिहारिकस्तन्मुखादालोचनाद्वारेण श्रुत्वा यद्वा ये तस्य - परिहारिकस्यानुचराः - सहायाः प्रेषितास्तैः कथि - 20 तम् ; 'उवको नाम' अन्यः कोऽपि तिर्यगापतितो मिलितः, तेषां गच्छसत्को न भवतीत्यथेः, तेन वा कथितम्, यथा - एतेनामुकं पादधावनादिकं प्रतिसेवितम् || ६०३७ ॥ ततः—तेसिं पच्चयउं, जे पेसविया सुयं व तं जेहिं ।
भयउ सगाण य, इमा उ आरोवणारयणा ॥। ६०३८ ॥
ये तेन सार्द्धं प्रेषिता यैर्वाऽप्रेषितैरपि प्रतिसेवनं श्रुतं 'तेषाम्' उभयेषामप्यपरिणामकानां 25 प्रत्ययहेतोः 'शेषाणां च ' अतिपरिणामिकानां भयोत्पादन हेतोरियम् 'आरोपणारचना' व्यवहारप्रस्थापना सूरिभिः कर्तव्या ॥। ६०३८ ॥
गुरुओ गुरुअतराओ, अहागुरूओ य होइ ववहारो । लहुओ लहुयतराओ, अहालहू होइ ववहारो ॥। ६०३९ ॥ लहुसो लहुसतराओ, अहालहूसो अ होइ ववहारो । एतेसिं पच्छित्तं, वुच्छामि अहाणुपुत्रीए । ६०४० ॥ व्यवहारस्त्रिविधः, तद्यथा - गुरुको लघुको लघुत्वकश्च । तत्र यो गुरुकः स त्रिविधः, १ धोया, बुद्धीय हेतुं ताभा० ॥ २ 'त् । ' तदिति' लोकप्रसिद्धं 'वातिकं नाम' कां० ॥
Jain Education International
10
For Private & Personal Use Only
30
www.jainelibrary.org