________________
भाष्यगाथाः ६०२५-३२] पञ्चम उद्देशः ।
१५९१ तदिवसमक्खणेण उ, दिवा दोसा जहा उ मक्खिज्जा ।
अद्धाणेणुव्वाए, वाय अरुग कच्छु जयणाए ॥ ६०२८॥ तदिवसम्रक्षणेन जनिता एते दोषा दृष्टाः । द्वितीयपदे यथा प्रक्षयेत् तथाऽभिधीयतेअध्वगमनेनातीव 'उद्वातः' परिश्रान्तः, वातेन वा कटी गृहीता, 'अरुः' व्रणं तद्वा शरीरे जातम् , 'कच्छुः' पामा तया वा कोऽपि गृहीतस्ततो यतनया म्रक्षयेदपि ॥६०२८।। तामेवाह-5
सन्नाईकयको, धुविउं मक्खेउ अच्छए अंतो।
परिपीय गोमयाई, उव्वट्टण धोव्वणा जयणा ॥ ६०२९ ॥ संज्ञागमनम् आदिशब्दाद् भिक्षागमनादिकं च कार्य कृतं येन स संज्ञादिकृतकार्यः, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः । स यावन्मानं गात्रं प्रेक्षणीयं तावन्मात्रमेव धावित्वा प्रक्षाल्य ततो प्रक्षयति । म्रक्षयित्वा च प्रतिश्रयस्यान्तः तावदास्ते यावत् तेन गात्रेण तत् 10 तैलादिकं म्रक्षणं परिपीतं भवति । ततो गोमयादिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लावना न भवति तथा धावनं कार्यम् ॥ ६०२९ ॥
जह कारणें तदिवसं, तु कप्पई तह भवेज इयरं पि ।
आयरियवाहि वसमेहि पुच्छिए विज संदेसो ॥६०३० ॥ यथा कारणे तदिवसानीतं म्रक्षणं कल्पते तथा 'इतरदपि' परिवासितं म्रक्षणं कारणे 16 कल्पते । कथम् ? इति चेद् अत आह-आचार्यस्य कोऽपि व्याधिरुत्पन्नः, ततो वृषभैवेद्यः पूर्वोक्तेन विधिना प्रष्टव्यः । तेन च पृष्टेन 'सन्देशः' उपदेशो दत्तो भवेत् , यथा- शतपाकादीनि तैलानि यदि भवन्ति ततश्चिकित्सा क्रियते ॥६०३०॥ ततः किं कर्तव्यम् ! इत्याह
सयपाग सहस्सं वा, सयसाहस्सं व हंस-मरुतेल्लं ।।
दूराओ वि य असई, परिवासिजा जयं धीरे ।। ६०३१ ॥. 20 शतपाकं नाम तैलं तद् उच्यते यद् औषधानां शतेन पच्यते, यद्वा एकेनाप्यौषधेन शतवाराः पक्कम् । एवं सहस्रपाकं शतसहस्रपाकं च मन्तव्यम् । हंसपाकं नाम हंसेन-औषधसम्भारभृतेन यत् तैलं पच्यते । मरुतैलं-मरुदेशे पर्वतादुत्पद्यते । एवंविधानि दुर्लभद्रव्याणि प्रथमं तदैवसिकानि मार्गणीयानि । अथ दिने दिने न लभ्यन्ते ततः पञ्चकपरिहाण्या चतुर्गुरुप्राप्तो दूरादप्यानीय 'धीरः' गीतार्थों 'यतनया' अल्पसागारिके स्थाने मदनचीरेण 25 वेष्टयित्वा परिवासयेत् ॥ ६०३१ ॥ इदमेव सुव्यक्तमाह
एयाणि मक्खणट्ठा, पियणट्ठा एव पतिदिणालंमे ।
पणहाणीए जइउं, चउगुरुपत्तो अंदोसाओ ॥ ६०३२ ॥ 'एतानि' शतपाकादीनि तैलानि प्रक्षणार्थ पानार्थं वा प्रतिदिनं यदि न लभ्यन्ते ततः पञ्चकपरिहाण्या यतित्वा चतुर्गुरुकं यदा प्राप्तो भवति तदा परिवासयन्नपि 'अदोषः' न प्राय-3c श्चित्तभाक् । सर्वथैवालाभे गुरूणां हेतोरात्मनाऽपि यतनया पचन्ति ॥ १०३२ ।।
॥ परिवासितप्रकृतं समाप्तम् ।। १°म्। एषा यतना मन्तव्या ॥६०२९॥ जह कां० ॥२ अदोसाय तामा० । भदोसो उभा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org