________________
१५७० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ब्रह्मरक्षाप्रकृते सूत्रम् २०-३० किमर्थमवग्रहानन्तकादिसज्जा ? इति चेद् अत आह
मुच्छाएँ निवडिताए, वातेण समुद्भुते व संवरणे ।
गोतरमजयणदोसा, जे वुत्ता ते उ पाविजा ।। ५९५२॥ तस्या आतापयन्त्याः खरतरातपसम्पर्कपरितापितायाः कदाचिद् मूर्छा सञ्जायेत तया च 5 निपतितायाः, वातेन वा 'संवरणे' प्रावरणे समुद्धते, अवग्रहानन्तकादिभिर्विना गोचरचर्यायामयतनया प्रविष्टाया ये दोषास्तृतीयोदेशके उक्तास्तान् प्राप्नुयात् , अतस्तैः प्रावृता आतापयेत् ॥ ५९५२ ॥ सूत्रम्
नो कप्पइ निग्गंथीए ठाणाययाए हुंतए २० ॥ नो कप्पइ निग्गंथीए पडिमट्ठाइयाए हुंतए २१ ॥ एवं नेसज्जियाए २२ उकुडुगासणियाए २३ वीरासणियाए २४ दंडासणियाए २५ लगंडसाइयाए २६
ओमंथियाए २७ उत्ताणियाए २८ अंबखुजियाए २९
एगपासियाए ३०॥ 15 नोकल्पते निम्रन्थ्याः स्थानायताया भवितुम् । एवं प्रतिमास्थायिन्या नैषधिकाया उत्कटिकासनिकाया वीरासनिकाया दण्डासनिकाया लगण्डशायिन्या अवाङ्मुखाया उत्तानिकाया आम्रकुनिकाया एकपार्श्वशायिन्या इति सूत्राक्षरसंस्कारः ॥ अत्र भाष्यकारो विषमपदानि व्याख्यानयति
उद्धट्ठाणं ठाणायतं तु पडिमाउ होंति मासाई । पंचेव णिसिजाओ, तासि विभासा उ कायव्वा ॥ ५९५३ ॥ वीरासणं तु सीहासणे व जह मुक्कजण्णुक णिविहो ।
दंडे लगंड उवमा, आयत खुजाय दुण्हं पि ॥ ५९५४ ॥ स्थानायतं नाम ऊर्द्धस्थानरूपमायतं स्थानं तद् यस्यामस्ति सा स्थानायतिका । केचित्तु "ठाणाइयाए" इति पठन्ति, तत्रायमर्थः-सर्वेषां निषदनादीनां स्थानानां आदिभूतमूस्था25 नम् , अतः स्थानानामादौ गच्छतीति व्युत्पत्त्या स्थानादिगं तद् उच्यते, तद्योगाद् आर्यिकाऽपि स्थानादिगेति व्यपदिश्यते । प्रतिमाः मासिक्यादिकाः तासु तिष्ठतीति प्रतिमास्थायिनी ।
१ मुच्छाए विवडियाते, वातेण समुट्टिते व तामा० ॥ २ “सुत्तं-“णो कप्पइ जिग्गंथीए ठाणायतियाए होयए । एवं सव्वे सुत्ता उच्चारेयव्वा जाव उत्ताणसाइयाए ॥” इति चूर्णी विशेषचूर्णौ च ॥ ३ एवमेतान्येकादश सूत्राणि। सम्बन्धःप्रागुक्त एव। अथामीषां व्याख्या-नो कल्पते कां•॥ ४ नानां यद् आदिभूतं स्थानम् , ऊर्षस्थानमित्यर्थः, "उड्ढ निसीय तुयट्टण, ठाणं तिविहं तु होइ नायव्वं ।" (ओघनि० भा० गा० १५२) इति वचनात् , अंतः स्थानाना को० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org