SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ १५७१ .. 15 साता भाष्यगाथाः ५९५२-५६] पञ्चम उद्देशः । "नेसज्जियाय" ति निषद्याः पञ्चैव भवन्ति तासां विभाषा कर्तव्या । सा चेयम्-निषद्या नाम-उपवेशनविशेषाः, ताः पञ्चविधाः, तद्यथा-समपादयुता गोनिषधिका हस्तिशुण्डिका पर्यङ्काऽर्धपर्यङ्का चेति । तत्र यस्यां समौ पादौ पुतौ च स्पृशतः सा समपादयुता, यस्यां तु गौरिवोपवेशनं सा गोनिषद्यिका, यत्र पुताभ्यामुपविश्यकं पादमुत्पाटयति सा हस्तिशुण्डिका, पर्यङ्का प्रतीता, अर्थपर्यङ्का यस्यामेकं जानुमुत्पाटयति । एवं विधया निषद्यया चरतीति नैष-३ द्यिकी । उत्कटिकासनं तु सुगमत्वाद् भाष्यकृता न व्याख्यातम् ।। ५९५३ ॥ .. वीरासनं नाम यथा सिंहासने उपविष्टो भून्यस्तपाद आस्ते तथा तस्यापनयने कृतेऽपि सिंहासन इव निविष्टो मुक्तजानुक इव निरालम्बनेऽपि यद् आस्ते । दुष्करं चैतद् , . अत एव वीरस्य-साहसिकस्यासनं वीरासनमित्युच्यते, तद् अस्या अस्तीति वीरासनिका । तथा दण्डासनिका-लगण्डशायिकापदद्वये यथाक्रमं दण्डस्य लगण्डस्य चायत-कुजताभ्यामुपमा 10 कर्तव्या । तद्यथा-दण्डस्येवाय-पादप्रसारणेन दीर्घ यद् आसनं तद् दण्डासनम् , तद अस्या अस्तीति दण्डासनिका । लगण्डं किल-दुःसंस्थितं काष्ठम् , तद्वत् कुजतया मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, या तथाविधाभिग्रहविशेषेण शेते सा लगण्डशायिनी । अवाङ्मुखादीनि तु पदानि सुगमत्वाद् न व्याख्यातानीति द्रष्टव्यम् । एते सर्वेऽप्यभिग्रहविशेषाः संयतीनां प्रतिषिद्धाः ।। ५९५४ ॥ एतान् पतिपद्यमानानां दोषानाह जोणीखुब्भण पेल्लण, गुरुगा भुत्ताण होइ सइकरणं । गुरुगा सवेंटगम्मी, कारणे गहणं व धरणं वा ॥ ५९५५ ॥ ऊर्द्धस्थानादौ स्थानविशेषे स्थिताया आर्यिकाया योनेः क्षोभो भवेत् , तरुणा वा तथास्थितां दृष्ट्वा 'प्रेरयेयुः' प्रतिसेवेरन् । अत एवैतानभिग्रहान् प्रतिपद्यमानायास्तस्याश्चतुर्गुरु । 20 भुक्तभोगिनीनां च येन कारणेन स्मृतिकरणमितरासां कौतुकं च जायते । तथा वक्ष्यमाणसूत्रे प्रतिषेधयिष्यमाणं सवेण्टकं तुम्बकं यदि निर्ग्रन्थी गृह्णाति तदा चतुर्गुरु, स्मृतिकरणादयश्च त एव दोषाः । कारणे तु तस्यापि ग्रहणं धारणं चानुज्ञातम् । एतच्चाप्रस्तुतमपि लाघवार्थ स्मृतिकरणादिदोषसाम्यादत्र भाष्यकृताऽभिहितमिति सम्भावयामः, अन्यथा वा सुधिया परिभाव्यम् ॥ ५९५५ ॥ 25 वीरासण गोदोही, मुत्तुं सव्वे वि ताण कप्पंति । ते पुण पडुच्च चेटुं, सुत्ता उ अभिग्गहं पप्पा ॥ ५९५६ ॥ अनन्तरोक्तासनानां मध्याद् वीरासनं गोदोहिकासनं च मुक्त्वा शेषाण्यर्द्धस्थानादीनि सर्वाण्यपि तासां कल्पन्ते । आह-सूत्रे तान्यपि प्रतिषिद्धानि तत् कथमनुज्ञायन्ते ? इत्याह-'तानि पुनः' शेषाणि स्थानानि चेष्टां प्रतीत्य कल्पन्ते, न पुनरभिग्रहविशेषम् ; 30 सूत्राणि पुनरभिग्रहं - 'प्राप्य' प्रतीत्य प्रवृत्तानि, तत इदमुक्तं भवति-अभिग्रह विशेषादूर्द्ध १ वीरासनादीनि तु पदानि विवृणोति इत्यवतरणं कां० ॥ २ °यते अतो न ग्राह्या एतेऽभिग्रहा आर्यिकयेति । तथा वक्ष्य कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy