________________
भाष्यगाथाः ५९४५-५१ ]
पञ्चम उद्देशः ।
१५६९
निषण्णस्य या मध्यमातापना सा त्रिधा - मध्यमोत्कृष्टा "दुहओ वि मज्झिम" ति मध्यममध्यमा मध्यमजघन्या च । ऊर्द्धस्थितस्य या जघन्या साऽपि त्रिधा - अधमोत्कृष्टा अधममध्यमा अधमाधमा च चरिमेति । अधमशब्दो जघन्यवाचकोऽत्र द्रष्टव्यः ॥ ५९४७ ॥
1
ऐतासामिदं स्वरूपम् —
पलियंक अद्ध उक्कुडुग, मो य तिविहा उ मज्झिमा होइ । तया उ हत्थिसुंडेगपाद समपादिगा चैव ।। ५९४८ ॥ मध्यमोत्कृष्टा पर्यङ्कासनसंस्थिता, मध्यममध्यमा अर्द्धपर्यङ्का, मध्यमजघन्या उत्कटिका । क्वचिदादर्शे पूर्वार्द्धमित्थं दृश्यते " गोदोहुक्कड पलियंक मो उ तिविहा उ मज्झिमा होइ” त्ति, तत्र मध्यमोत्कृष्टा गोदोहिका, मध्यममध्यमा उत्कटिका, मध्यमजघन्या पर्यङ्कासनरूपा । मोशब्दः पादपूरणे । एषा त्रिविधा मध्यमा भवति । या तु 'तृतीया' स्थितस्य 10 जघन्योत्कृष्टादिभेदात् त्रिधा भणिता सा जघन्योत्कृष्टा 'हस्तिशुण्डिका' पुताभ्यामुपविष्टस्यैकपादोत्पाटनरूपा, जघन्यमध्यमा 'एकपादिका' उत्थितस्यैकपादेनावस्थानम् जघन्यजघन्या 'समपादिका' समतलाभ्यां पादाभ्यां स्थित्वा यद् ऊर्द्धस्थितैराताप्यते ॥ ५९४८ ॥ कथं पुनः शयितस्योत्कृष्टातापना भवति ? इति उच्यते
सव्वंगिओ पतावो, पताविया घम्मरस्तिणा भूमी ।
णय कमइ तत्थ वाओ, विस्सामो णेव गत्ताणं ।। ५९४९ ।। भूमौ निवन्नस्य सर्वाङ्गीणः 'प्रताप' प्रकर्षेण तापो लगति, धर्मरश्मिना च भूमिः प्रकर्षेण - अत्यन्तं तापिता, न च ‘तत्र' भूमौ वायुः 'क्रमते' प्रचरति, न च 'गात्राणाम्' अङ्गानां विश्रामो भवति, अतो निपन्नस्योत्कृष्टातापना मन्तव्या ॥ ५९४९ ॥
अथाषां मध्यादार्याणां काऽऽआतापना कर्तुं कल्पते ? इत्यत आह
यासि व पी, अणुणाया संजईण अंतिल्ला |
सेसा नाणुन्नाया, अट्ठ तु आतावणा तासि ।। ५९५० ॥
एतासां नवानामप्यातापनानां मध्याद् 'अन्तिमा' सम्पादिकाख्या आतापना संयतीनामनुज्ञाता । ‘शेषाः' अष्टावातापनास्तासां नानुज्ञाताः ॥ ५९५० ॥
कीदृशे पुनः स्थाने ता आतापयन्ति ? इति उच्यते
5
Jain Education International
15
20
25
पालीहिँ जत्थ दीसह, जत्थ य सेंइरं विसंति न जुवाणा । उग्गहमादिसु सजा, आयावयते तर्हि अजा ।। ५९५१ ।।
यत्र प्रतिश्रयपालिकाभिः संयतीभिरातापयन्ती दृश्यते, यत्र च 'खैरं' स्वच्छन्दं युवानो न प्रविशन्ति तत्र स्थानेऽवग्रहाऽनन्तकादिभिः सङ्घाटिकान्तैरुपकरणैः 'सज्जा' आयुक्ता आर्यिका प्रलम्बितबाहुयुगला आतापयति ।। ५९५१ ॥
30
१ एतासां यथाक्रममिदं कां० ॥ २ चूर्णिकृता विशेषचूर्णिकता चैष एव पाठ आहतोऽस्ति । तथाहि —“मज्झिमुकोसा मज्झिममज्झिमा मज्झि जहन्ना गोदोहिया उक्कुडुगा पलियंका यथासङ्ख्यम्” इति ॥ ३ब्द उभयोरपि पाठयोः पाद' कां० ॥ ४ सइरं वयंति ण जुवाणा ताभा० ॥
For Private & Personal Use Only
www.jainelibrary.org