________________
भाष्यगाथाः ५९२३-२९] पञ्चम उद्देशः ।
१५६३ दंडगसारक्खणया, वारिति दिवा य पेल्लंते ॥ ५९२७ ॥ __ गृहस्थनिश्रया कारणे काचिदेकाकिनी वसन्ती 'ताभिः' अविरतिकाभिः समं रात्रौ 'उभयस्य' प्रश्रवणोच्चारस्य व्युत्सर्जनार्थं निर्गच्छति, नियन्ती च वानरादीनभिद्रवतो दण्डकेन संरक्षति, दिवा च प्रतिश्रयं 'प्रेरयतः' प्रविशतो निवारयति ॥ ५९२७ ॥ अथागाढकारणं व्याचष्टे
अट्ठाण सद्द आलिंगणादिपाकम्मतिच्छिता संती।
अच्चित्त बिंब अणिहुत, कुलघर सड्डादिंगे चेव ॥ ५९२८ ॥ कस्याश्चिदार्यिकायाः सनिमित्तोऽनिमित्तो वा मोहोद्भवः सञ्जातस्ततो निर्विकृतिकादिकायां मोहचिकित्सायां कृतायामपि यदा न तिष्ठति तदाऽस्थाने शब्दप्रतिबद्धायां वसतौ सा स्थापनीया । ततो यत्राविरतिकानामालिङ्गनादिकं क्रियमाणं दृश्यते तत्र स्थाप्यते । तथाऽप्यनुपरते मोहे पादकर्म करोति । तदप्यतिक्रान्ता सती यद् 'अचित्तं बिम्बं' ढुंण्ढशिवादिकं तेन प्रति-10 सेवयति । तथाऽप्यतिष्ठति योऽनिभृतस्तेनास्थानादिकं सर्वमपि कृत्वा ततः कुलगृहे भगिन्या भ्रातृजायाया वा आलिङ्गनादिकं क्रियमाणं प्रेक्षते । तदभावे श्राद्धिकायाः, तदपाप्तौ यथाभद्रिकाया अपि प्रेक्षते । प्रथममिन्द्रिये, पश्चात् श्रोतस्यपि यतनयेति ॥ ५९२८ ॥
नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं 18 पिंडवायपडियाए निक्खमित्तए वा पविसित्तए वा, बहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा, एवं गामाणुगामं वा दूइजित्तए
वा वासावासं वा वत्थए १५॥ एवं यावदेकपार्श्वशायिसूत्रं तावत् सर्वाण्यपि सूत्राण्युच्चारयितव्यानि ॥ अथामीषां सूत्राणां 20 सम्बन्धमाह
बंभवयरक्खणट्ठा, एगधिगारा तु होंतिमे सुत्ता ।
जा एगपाससायी, विसेसतो संजतीवग्गे ॥ ५९२९ ॥ ब्रह्मत्रतरक्षणार्थमनन्तरं सूत्रद्वयमुक्तम् , अमून्यपि सूत्राणि यावदेकपार्श्वशायिसूत्रं तावत् सर्वाण्यपि 'एकाधिकाराणि' तस्यैव ब्रह्मत्रतस्य रक्षणार्थमभिधीयन्ते । “विसेसओ संजई-25 वग्गे" ति एतेषु सूत्रेषु किञ्चिद् निर्ग्रन्थानामपि सम्भवति, यथा-एकाकिसूत्रम् ; परं विशेषतः संयतीवर्गमधिकृत्यामूनि सर्वाण्यपि द्रष्टव्यानि ।। ५९२९ ॥
१गेहे य कां ॥ २ "जाधे ण ठाति ताहे ढोंढ सिवेण" इति चूर्णी । “जाहे ण ठाइ ताहे फुफसिवेण" इति विशेषचूर्णौ ॥ ३ °याः आदिशब्दात् तद° को० ॥ ४ °कुलं भत्ताए वा पाणाए वा निक्ख' का । एतत्पाठानुसारेणैव कां ० टीका, दृश्यतां पत्रं १५६४ टिप्पणी १ ॥ ५ °णार्थाधिकारवन्ति भवन्ति । किञ्च-"विसे कां० ॥ ६ एकपार्श्वशायिसूत्र कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org