________________
१५६४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मरक्षाप्रकृते सूत्रम् १५-१६ ___ अनेन सम्बन्धेनायातानाममीषां प्रथमसूत्रस्य तावद् व्याख्यानो कल्पते निर्ग्रन्थया एकाकिन्या गृहपतिकुलं पिण्डपातप्रतिज्ञया निष्क्रमितुं वा प्रवेष्टुं वा, बहिर्विचारभूमौ वा विहारभूमौ वा निष्क्रमितुं वा प्रवे, वा, ग्रामानुग्रामं वा 'द्रोतुं' विहां वर्षावासं वा वस्तुमिति सूत्रार्थः ॥ सम्प्रति नियुक्तिविस्तरः
एगागी वच्चंती, अप्पा त महव्यता परिच्चत्ता।
लहु गुरु लहुगा गुरुगा, भिक्ख वियारे वसहि गामे ॥ ५९३०॥ एकाकिनी निर्ग्रन्थी यदि भिक्षादौ व्रजति तत आत्मा महाव्रतानि च तया परित्यक्तानि भवन्ति, स्तेनाद्युपद्रवसम्भवात् । अतो भिक्षायामेकाकिन्या गच्छन्त्या लघुमासः, बहिर्विचार मौ
गच्छन्त्यां गुरुमासः, ऋतुबद्धे वर्षावासे वा वसतिं एकाकिनी गृह्णाति चतुर्लघु, ग्रामानुग्राममे10 काकिनी द्रवति चतुर्गुरु ।। ५९३० ॥ इदमविशेषितं प्रायश्चित्तमुक्तम् । अथ विशेषितमाह
मासादी जा गुरुगा, थेरी-खुड्डी-विमज्झ-तरुणीणं ।
तव-कालविसिट्ठा वा, चउसुं पि चउण्ह मासाई ॥ ५९३१ ॥ स्थविराया एकाकिन्या भिक्षादौ वजन्त्या मासलघु, क्षुल्लिकाया मासगुरु, विमध्यमायाश्चतुर्लघु, तरुण्याश्चतुर्गुरु । अथवा स्थविरा यदि एकाकिनी भिक्षायां याति ततो मासलघु तपसा 15कालेन च लघुकम् , बहिर्विचारभूमौ विहारभूमौ वा याति मासलघु कालेन गुरुकम्, वसति
गृह्णाति मासलघु तपसा गुरुकम् , प्रामानुग्रामं द्रवति मासलघु तपसा कालेन च गुरुकम् । क्षुल्लिकाया एवमेव चतुर्ष स्थानेषु चत्वारि मासगुरूणि तपः-कालविशेषितानि कर्तव्यानि । विमध्यमायाश्चतुर्दा स्थानेषु चत्वारि चतुर्लघूनि तपः-कालविशेषितानि । तरुण्याः स्थानचतुष्ट
येऽपि तथैव तपः-कालविशेषितानि चत्वारि चतुर्गुरूणि ॥ ५९३१ ॥ अथ दोषानाह20
अच्छंती वेगागी, 'किं ण्हु हु दोसे ण इत्थिगा पावे । __ आमोसग-तरुणेहिं, किं पुण पंथम्मि संका य ॥ ५९३२॥ किमेकाकिनी स्त्री प्रतिश्रये तिष्ठन्ती दोषान् न प्रामोति येनैवं भिक्षाटनादिकमेवैकाकिन्याः प्रतिषिध्यते ? इति शिष्येण पृष्टे सूरिराह-तत्रापि तिष्ठन्ती प्राप्नोत्येव दोषान् परम् आमोषकाः-स्तेनास्तरुणाः-युवानस्तैः कृता एकाकिन्याः पथि गच्छन्त्या भूयांसो दोषाः, शङ्का च 2 तत्र भवति-अवश्यमेषा दुःशीला येनैकाकिनी गच्छति ॥ ५९३२ ॥ किञ्च
एगाणियाएँ दोसा, साणे तरुणे तहेव पडिणीए ।
भिक्खऽविसोहि महव्वत, तम्हा सवितिजियागमणं ॥ ५९३३ ॥ १°कुलं भक्ताय वा पानाय वा निष्क' का ० ॥ २ भूमौ उपलक्षणत्वाद् विहारभूमौ च गच्छ° का० ॥ ३ स्थविरा-श्रुल्लिका-विमध्यमा-तरुणीनां यथाक्रमं मासलघुकमादौ कृत्वा चतुर्गुरुकं यावत् प्रायश्चित्तम् । तद्यथा-स्थविराया कां ॥ ४ अथवा 'चतसृणामपि' स्थविराप्रभृतीनां 'चतुर्वपि' भिक्षागमनादिषु यथाक्रमं तपः-कालविशिष्टा मासलघुप्रभृतीनि प्रायश्चित्तम् । तद्यथा-स्थविरा यदि कां० ॥ ५ किं नु हु को ० । एतःपाठानुसारेणैव कां• टीका, दृश्यतां टिप्पणी ६ ॥ ६ 'नुः' इति वितर्के, 'हुः' इति निश्चये । किमे कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org