________________
सनिर्युक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ ब्रह्मरक्षाप्रकृते सूत्रम् १३-१४
भुक्ता-ऽभुक्तविभाषा, भुक्तभोगिन्याः स्मृतिकरणमभुक्तभोगिन्याश्च कौतुकमुत्पद्येतेत्यर्थः । तथा "तस्सेवि” त्ति गृहवासे तैः - पशुजातीयादिभिः प्रतिसेविता काचित् कुलगृहे आसीत् सातान् दृष्ट्वा स्मृतपूर्वरता प्रतिगमनादीनि कुर्यात् । यद्वा तासां बान्धवास्तत्पाक्षिका वा सुहृदस्तादृशेऽनायतने स्थितां तामार्थिकां दृष्ट्वा लज्जया भूयः खगृहमानयन्ति ॥ ५९२२ ॥ किञ्च - आलिंगणादिगा वा, अणिहुय-मादीसु वा निसेविज्जा । एरिसगाण पवेसो, ण होति अंतेपुरेसुं पि ।। ५९२३ ।।
पशुजातीयादयस्तां संयतीमालिङ्गेयुः, सा वा संयती तानालिङ्गेत्, एवमालिङ्गनादयो दोषा भवेयुः । अपि च- - एते वानरादयः स्वभावादेवानिभृताः - कन्दर्पबहुला मायिनश्च भवन्ति ततस्तैरनिभृत- मायिभिः सा कदाचिदात्मानं निषेवयेत् । ईदृशानां च पशु-पक्षिजातीयानां 10 प्रवेशो राज्ञोऽन्तःपुरेष्वपि 'न भवति' न दीयते । कारणे पुनरन्यस्या वसतेरभावे तत्रापि तिष्ठेयुः ॥ ५९२३ ॥
5
कारणें गमणे वि तर्हि, विविचमाणीऍ आगतों लिहेजा ।
गुरुगो य होति मासो, आणाति सती तु स च्चैव ॥ ५९२४ ॥
कारणे तत्रापि स्थितानामुच्चारभूमौ प्रश्रवणभूमौ वा गत्वा ' विविञ्चन्त्याः' परिष्ठापयन्त्या 15 वानरादिः समागच्छेत्, आगतश्च तामालिङ्गेत्, सा च यदि 'लिह्यात्' तं स्पर्शं स्वादयेत् ततो गुरुमासः आज्ञादयश्च दोषाः, स्मृतिश्च सा चैव पूर्वोक्ता भवति ॥ ५९२४ ॥
अथ न स्वादयति ततः सा शुद्धा, यतना चेयं तत्र कर्तव्या
25
१५६२
वंदेण दंडहत्था, निग्गंतुं आयरंति पडिचरणं ।
पविते वारिंति य, दिवा वि ण उ काइयं एक्का ।। ५९२५ ।। 20 'वृन्देन' द्वि- ध्यादित्रतिनीसमुदायेन दण्डकहस्ता निर्गच्छन्ति, निर्गत्य च कायिकादिकमाचरन्ति, वानरादीनां च प्रतिचरणं कुर्वन्ति । ये तत्राभिद्रवन्ति तान् दण्डकेन ताडयन्ति, प्रतिश्रये च प्रविशतो निवारयन्ति । दिवाऽपि च कायिकाभूमिम् 'एका' एकाकिनी न गच्छति ॥ ५९२५ ॥ व्याख्यातमिन्द्रियसूत्रम् । सम्प्रति श्रोतः सूत्रं व्याचष्टे – एवं तु इंदिएहिं सोते लहुगा य परिणए गुरुगा ।
वितिपद कारणम्मि, इंदिय सोए य आगाढे ॥। ५९२६ ।।
एवं तावद् इन्द्रियसूत्रे प्रायश्चित्तं विधिश्वोक्तः । यत्र तु पशुजातीयादयः श्रोतोऽवगाहनं कुर्वन्ति तत्र तिष्ठन्तीनां चतुर्लघु । तेषु श्रोतोऽवगाहनं कुर्वाणेषु यदि सा सुन्दरमिदमिति परिणता ततश्चतुर्गुरु । द्वितीयपदे आगाढे कारणे इन्द्रिये श्रोतसि च परामर्शं खादयेदपि । इदमुत्तरत्र भावयिष्यते ॥ ५९२६ ॥ कारणे एकाकिन्यास्तिष्ठन्त्यास्तावदियं यतनागिहिणिस्सा एगागी, ताहिँ समं णिति रत्तिमुभयस्सा |
30
१ वा कर्त्तव्या, ईशेऽनायतने स्थिताया भुक्तभोगिन्याः स्मृतिकरणम् अभुक्तभोगिन्याश्च कौतुकमुत्पद्येतेत्यादि विस्तरेण वक्तव्यमित्यर्थः । तथा कां० ॥ २ तादृशे उपाश्रये स्थिता सती 'वृन्दे कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org