SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५९१७-२२] पञ्चम उद्देशः । १५६१ डिसेवणप्पत्ता आवज्जइ चाउम्मासियं अणुग्धा इयं १४॥ अस्य सूत्रद्वयस्य सम्बन्धमाह पढमिल्लुग-ततियाणं, चरितो अत्थो वताण रक्खट्ठा । मेहुणरक्खट्ठा पुण, इंदिय सोए य दो सुत्ता ॥ ५९१९ ॥ 5 'प्रथम-तृतीययोव्रतयोः' प्राणातिपाता-ऽदत्तादानविरतिलक्षणयो रक्षणार्थं तीर्थकरानुज्ञातशीतोदकपरिभोगे तयोर्भङ्गो मा भूदिति कृत्वा पूर्वसूत्रस्यार्थः 'चरितः' गतः, भणित इत्यर्थः । सम्प्रति तु मैथुनव्रतरक्षणार्थमिन्द्रियविषय-श्रोतोविषये द्वे सूत्रे आरभ्येते ।। ५९१९ ॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थ्याः रात्रौ वा विकाले वा उच्चारं वा प्रश्रवणं वा विविश्चन्त्या वा विशोधयन्त्या वा अन्यतरः 'पशुजातीयो वा' वानरादिकः 'पक्षिजातीयो 10 वा' मयूरादिकोऽन्यतरदिन्द्रियजातं 'परामृशेत्' स्पृशेत् , सा च निम्रन्थी तं च स्पर्श 'खादयेत्' 'सुन्दरोऽस्य स्पर्शः' इत्यनुमन्येत, हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते मासिकमनुद्धातिकं स्थानम् । इह निम्रन्थीनां परिहारतपो न भवतीति कृत्वा "परिहारट्ठाणं" ति पदं न पठनीयम् ॥ एवं द्वितीयसूत्रमपि व्याख्येयम् । नवरम्-अन्यतरस्मिन् 'श्रोतसि' योन्यादौ वानरादिरवगाहेत, सा च मैथुनप्रतिसेवनप्राप्ता यदि खादयेत् ततश्चतुर्गुरुकमिति सूत्रार्थः ॥ 15 अथ भाष्यविस्तरः वानर छगला हरिणा, सुणगादीया य पसुगणा होति । ____ बरहिण चासा हंसा, कुक्कुडंग-सुगादिणो पक्खी ॥ ५९२० ॥ वानराः छगला हरिणाः शुनकादयश्च पशुगणा मन्तव्याः । बर्हिणश्चाषा हंसाः कुकुटशुकादयश्च पक्षिण उच्यन्ते ॥ ५९२० ॥ 20 जहियं तु अणाययणा, पासवणुच्चार तहिँ पडिकुटुं । लहुगो य होइ मासो, आणादि सती कुलघरे वा ॥ ५९२१॥ यौते पशुजातीयाः पक्षिजातीयाश्च प्राणिनः सम्भवन्ति तद् अनायतनमुच्यते, तत्र निर्ग्रन्थीनामवस्थानं प्रश्रवणोच्चारपरिष्ठापनं च पतिक्रुष्टम् । यदि कुर्वन्ति तदा लघुमासः, आज्ञादयश्च दोषाः । “सई कुलघरे व" ति भुक्तभोगिन्याश्च स्मृतिकरणं कुलगृहे वा भूयस्तासां बान्ध-25 वादिभिर्नयनं क्रियते ॥ ५९२१ ॥ इदमेव व्याचष्टे भुत्ता-ऽभुत्तविभासा, तस्सेवी काति कुलघरे आसि । बंधव तप्पक्खी वा, ददृणे लयंति लज्जाए ॥ ५९२२ ॥ १ज्ञाततदीयजीवादत्त-शीतो का ॥२ °स्य सूत्रद्वयस्य व्याख्या-निर्ग्रन्थ्याः चशब्दो वाक्योपन्यासे रात्रौ को० ॥ ३ तत आपद्यते चातुर्मासिकमनुद्धातिकम्, चतुर्गुरुकमित्यर्थः ॥ अथ कां ॥ ४ °3-सुयमादि' तामा० ॥ ५ °ण णयंति ताभा० कां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy