SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १५२२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अधिकरणप्रकृते सूत्रम् ५ शिष्यः पृच्छति-किं सदृशापराधे विषमं प्रायश्चित्तं प्रयच्छथ राग-द्वेषिणो यूयम् । आचार्यः प्राह-कुमारदृष्टान्तोऽत्र भवति, स चोत्तरत्राभिधास्यते ॥ ५७७५॥ ये ते उपाध्यायस्य त्रयः पक्षास्ते दिवसीकृताः पञ्चचत्वारिंशदिवसा भवन्ति, ततः पणयाल दिणा गणिणो, चउहा काऊण साहिएक्कारा । भत्तट्टण सज्झाए, वंदण लावे य हावेति ॥ ५७७६ ॥ गणिनः सम्बन्धिनः पञ्चचत्वारिंशद् दिवसाश्चतुर्धा क्रियन्ते, चतुर्भागे च साधिकाः-सपादा एकादश दिवसा भवन्ति । तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थनं करोति, एवं स्वाध्याय-वन्दना-ऽऽलापानपि प्रत्येकमेकादश दिनानि यथाक्रमं करोति, परतस्तु परिहाप यति । पञ्चचत्वारिंशदिवसानन्तरं चोपाध्यायस्य दशकच्छेदः । आचार्यस्तथैवोपाध्यायमपि 10 चतुर्भिश्चतुर्भिर्मासैभक्तार्थनादीनि परिहापयन् संवत्सरं सारयति ॥ ५७७६ ॥ आचार्यस्य द्वौ पक्षौ दिवसीकृतौ त्रिंशद दिवसा भवन्ति, ततः तीस दिणे आयरिए, अद्धह दिणे य हावणा तत्थ । गच्छेण चउपदेहि तु, णिच्छूढे लग्गती छेदो ॥ ५७७७ ॥ त्रिंशदिवसाश्चतुर्भागेन विभक्ता अर्धष्टमा दिवसा भवन्ति । तत्र गच्छ आचार्येण सहा15 ीष्टमानि दिनानि भक्तार्थनं करोति, एवं खाध्याय-वन्दना-ऽऽलापानपि यथाक्रममर्द्धाष्टमैदिवसैः प्रत्येकं हापयति । ततः परं गच्छेन चतुर्भिरपि-भक्तार्थनादिभिः पदैनिष्काशित आचार्यः पञ्चदशके च्छेदे लगति ॥ ५७७७ ॥ ततः संकतो अण्णगणं, सगणेण य वजितो चतुपदेहिं । आयरिओ पुण नवरिं, वंदण-लावेहि णं सारे ॥ ५७७८ ॥ 20 खगणेन भक्तार्थनादिभिश्चतुर्भिः पदैर्यदा वर्जितस्तदा अन्यगणं सक्रान्तः । स पुनरन्यगण स्याचार्यः 'नवरं केवलं वन्दना-ऽऽलापाभ्यां द्वाभ्यां पदाभ्यां सम्भुञ्जानः सारयति यावद् वर्षम् ॥ ५७७८ ॥ सज्झायमाइएहि, दिणे दिणे सारणा परगणे वि । नवरं पुण णाणतं, तवो गुरुस्सेतरे छेदो ॥ ५७७९ ॥ 25 परगणेऽपि सङ्क्रान्तस्याचार्यस्य खाध्यायादिभिः पदैर्दिने दिने सारणा क्रियते । नवरं परगणे सङ्क्रान्तस्येदं 'नानात्वं' विशेषः-अन्यगणसत्कस्य गुरोरसारयतस्तपः प्रायश्चित्तम् , 'इतरस्य पुनः' अधिकरणकारिण आचार्यस्यानुपशाम्यतश्छेदः ॥ ५७७९ ॥ ___ अत्र परः प्राह-रागद्वेषिणो यूयम् , आचार्य शीघ्रं छेदं प्रापयथ, उपाध्यायं बहुतरेण कालेन, भिक्षु ततोऽपि चिरतरेण, एवं हि भिक्षूपाध्याययोर्भवतां रागः आचार्ये द्वेषः । अत्र 30 सूरिः प्रागुद्दिष्टं कुमारदृष्टान्तमाह सरिसावराधे दंडो, जुवरण्णो भोगहरण-बंधादी । मज्झिम बंध-वहादी, अवत्ति कन्नादि खिसा वा ॥ ५७८० ॥ एगस्स रन्नो तिन्नि पुत्ता--जेहो मज्झिमो कणिटो य । तेहि य तिहि वि सामच्छियं-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy