SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५७६७-७५] पञ्चम उद्देशः । १५२१ एतदेव सुव्यक्तमाह एवं एकेकदिणे, हवेत्तु ठवणादिणे वि एमेव । चेइयवंदण सारे, तम्मि वि काले तिमासगुरू ॥५७७१ ॥ भाद्रपदशुद्धपञ्चम्यां अनुदित आदित्ये यद्यधिकरणमुत्पद्यते ततः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति, षष्ठ्यामुत्पन्ने एकदिवसोनः संवत्सरः, सप्तम्यां दिवसद्वयोनः, एवमेकैकं दिनं । हापयित्वा तावद् नेयं यावत् स्थापनादिनं-पर्युषणादिवसः । तत्र चानुदिते रवौ कलहे उत्पन्ने एवमेव नोदना कर्तव्या-प्रथमं खाध्यायप्रस्थापनं कर्तुकामैः सारणीयः, ततश्चैत्यवन्दनार्थ गन्तुकामाः सारयेयुः, तत्राप्यनुपशान्ते प्रतिक्रमणवेलायां सारयन्ति । एवं तस्मिन्नपि पर्युषणाकालदिवसे त्रिषु खाध्यायप्रस्थापनादिषु स्थानेषु नोदितस्यानुपशान्तस्य त्रीणि मासगुरुकाणि भवन्ति ॥ ५७७१॥ 10 पडिकंते पुण मूलं, पडिक्कमंते व होज अधिकरणं ।। संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाई ॥ ५७७२ ॥ पर्युषणादिने सर्वेषामधिकरणानां व्यवच्छित्तिः कर्तव्येति कृत्वा प्रतिक्रान्ते' समाप्ते आवश्यके यदि नोपशान्तस्ततो मूलम् । “पडिक्कमंते व" ति अथ प्रतिक्रमणे प्रारब्धे यावत् सांवत्सरिको महाकायोत्सर्गस्ताव अधिकरणे कृते मूलमेव केवलम् , न शेषाणि प्रायश्चित्तानि ।। ५७७२ ।। 15 संवच्छरं च रुटुं, आयरिओ रक्खए पयत्तेण । जति णाम उवसमेजा, पव्ययरातीसरिसरोसो ॥ ५७७३ ॥ एवमाचार्यस्तं रुष्टं संवत्सरं प्रयत्नेन रक्षति । किमर्थम् ? इत्याह-'यदि नाम' कथञ्चिदुपशाम्येत । अथ संवत्सरेणापि नोपशाम्यति ततः पर्वतराजीसदृशरोषः स मन्तव्यः ॥५७७३॥ तस्य च वर्षादृद्धं को विधिः ? इत्याह 20 अण्णे दो आयरिया, एककं वरिसमेत्तमेअस्स । तेण परं गिहि एसो, वितियपदं रायपव्वइए ॥ ५७७४ ॥ __तं वर्षादूद्ध मूलाचार्यसमीपाद् निर्गतमन्यौ द्वावाचार्यो क्रमेणैकैकं वर्षमेतेनैव विधिना प्रयत्नेन संरक्षतः, तन्मध्याद् येनोपशमितस्तस्यैवासौ शिष्यः । ततः परं' वर्षत्रयादूर्द्धमेष गृही क्रियते, सङ्घस्तदीयं लिङ्गमपहरतीत्यर्थः । द्वितीयपदे राजप्रबजितस्य लिङ्गं प्रस्तारदोषभयान्न ह्रियते । 25 एवं भिक्षोरुक्तम् ॥ ५७७४ ।। एमेव गणा-ऽऽयरिए, गच्छम्मि तवो उ तिनि पक्खाई। दो पक्खा आयरिए, पुच्छा य कुमारदिटुंतो ।। ५७७५ ॥ एवमेव गणिन आचार्यस्य च मन्तव्यम् । नवरम्-उपाध्यायस्यानुपशाम्यतो गच्छे वसतस्त्रीन् पक्षान् तपः प्रायश्चित्तम् , परतश्छेदः; आचार्यस्यानुपशाम्यतो द्वौ पक्षौ तपः, परतश्छेदः । 30 १ऐदंयुगीनचतुर्थीदिनभाविपर्युषणापर्वापेक्षया पारणकदिने भाद्रपद का० ॥ २'द अत्रान्तरेऽधिकरणं भवेत्' उत्पद्येत ततो यदि तत्क्षणादेव नोपशान्तस्तदा सांवत्सरिके कायोत्सर्गे कृते मूल कां० ॥ ३ °जपुत्रप्रम भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy