________________
१५२० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ अधिकरणप्रकृते सूत्रम् ५ कर्तव्या । 'यति' यावतो वारान् आचार्यो न सारयति 'तति' तावतो वारान मासगुरुकाणि भवन्ति ।। ५७६६ ॥
एवं तु अगीतत्थे, गीतत्थे सारिए गुरू सुद्धो।
जति तं गुरू ण सारे, आवत्ती होइ दोण्हं पि ॥ ५७६७ ॥ 5 एवं दिने दिने सारणाविधिरगीतार्थस्य कर्तव्यः । यस्तु गीतार्थः स यद्येकं दिनं खाध्यायभिक्षा-भक्तार्थना-ऽऽवश्यकलक्षणेषु चतुर्ष स्थानेषु सारितः तदा परतस्तमसारयन्नपि गुरुः शुद्धः । यदि पुनः 'तम्' अगीतार्थ गीतार्थं वा गुरुर्न सारयति ततः 'द्वयोरपि' आचार्यस्यानुपशाम्यतश्च प्रायश्चित्तस्यापत्तिः । अन्ये ब्रुवते-अगीतार्थस्यानुपशाम्यतोऽपि नास्ति प्रायश्चित्तम् , यस्तु गुरुरगीतार्थ न नोदयति तस्य प्रायश्चित्तम् ॥ ५७६७ ॥ 10
गच्छो य दोनि मासे, पक्खे पक्खे इमं परिहवेति ।
भत्तट्ठण सज्झायं, वंदण लावं ततों परेणं ॥ ५७६८ ॥ एवमनुपशाम्यन्तं तं गच्छो द्वौ मासौ सारयति, इदं पुनः पक्षे पक्षे परिहापयति । तद्यथाअनुपशान्तस्य पक्षे गते गच्छस्तेन साई भक्तार्थनं न करोति, न गृहाति वा न वा किमपि तस्य
ददातीत्यर्थः । द्वितीये पक्षे गते स्वाध्यायं तेन समं न करोति । तृतीये पक्षे गते वन्दनं न 15 करोति न वा प्रतीच्छति । चतुर्थोऽमि पक्षो यदा गतो भवति ततः परमालापमपि तेन सार्द्ध वर्जयन्ति ॥ ५७६८ ॥
आयरिय चउरों मासे, संभुंजति चउरों देइ सज्झायं ।
चंदण लावं चउरो, तेण परं मूल निच्छुहणा ॥ ५७६९ ॥ आचार्यः पुनश्चतुरो मासान् सर्वैरपि प्रकारेस्तेन समं सम्मुझे ततः परं चतुरो मासान् 20 भक्तार्थनं वर्जयति खाध्यायं तु ददाति । ततश्चतुरो मासान् खाध्यायं परिहृत्य वन्दना-ऽऽलापौ ददौति । ततः परं वर्षे पूर्णे सांवत्सरिके प्रतिक्रान्ते उपशान्तस्य मूलम् , अनुपशान्तस्य तु गणाद् निष्काशनं कर्तव्यम् ।। ५७६९ ।।
एवं बारस मासे, दोसु तवो सेसए भवे छेदो।
परिहायमाण तदिवस तवो मूलं पडिकते ॥ ५७७० ॥ 25 एवं द्वादशमास्यामप्यनुपशाम्यतः 'द्वयोः' आदिममासयोर्यावद् गच्छेन विसर्जितः तावत् तपः प्रायश्चित्तमेव, 'शेषेषु' दशसु मासेषु पञ्चरात्रिन्दिवच्छेदः यावत् सांवत्सरिक पर्व प्राप्त भवति । पर्युषणारात्रौ प्रतिक्रान्तानामधिकरणे उत्पन्ने एष विधिरुक्तः । “परिहायमाण तद्दिवस" त्ति पर्युषणापारणकदिनादेकैकदिवसेन परिहीयमानेन तावद् नेयं यावत् 'तदिवस' पर्युष
णादिवस एवाधिकरणमुत्पन्नं तत्र च तपो मूलं वा भवति न च्छेदः । “पडिकते" ति अथ 30 प्रतिक्रमणं कुर्वतामुत्पन्नं ततः सांवत्सरिके कायोत्सर्गे कृते मूलमेव केवलं भवति ॥ ५७७० ।।
१°न् गुरुको गुरुको मासो भवति ॥ ५७६६ का० ॥ २ °न्दनं तस्य न प्रयच्छति न वा प्रती कां० ॥ ३ °दाति । “तेण परं" ति विभक्तिव्यत्ययात् ततः का० ॥ ४ एतदनन्तरम् ग्रन्थानम्-५५०० का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org