________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मापायप्रकृते सूत्रम् १-४ द्वितीयो भणितोऽपि यदा नेच्छति तदा सुकुमारहस्तैराश्लिष्टस्ततो विषण्णः । तृतीय आश्लिष्टोऽप्यनिरछन् जङ्घाभ्यां संस्पृष्टो विषण्णः । एवं चतुर्थ ऊरुभ्यां संस्पृष्टो विषण्णः । पञ्चमः 'अवतासितः' बलामोटिकया आलिङ्गितो विषण्णः । षष्ठः पुनः सर्वप्रकारैः क्षोभ्यमानोऽपि निष्पकम्पः ॥ ५७०९ ॥ अथ एषु प्रायश्चित्तमाह
___पढमस्स होइ मूलं, वितिए छेओ य छग्गुरुगमेव ।
छल्लहुगा चउगुरुगा, पंचमए छ? सुद्धो उ॥ ५७१०॥ अत्र प्रथमस्य मूलम् , द्वितीयस्य च्छेदः, तृतीयस्य षड्गुरु, चतुर्थस्य षड्लघु, पञ्चमस्य चतुर्गुरु, अत्र च सूत्रनिपातः । षष्ठस्तु शुद्धः ॥ ५७१०॥
सव्वेहिँ पगारेहि, छंदणमाईहिँ छट्टओ सुद्धो। '10 तस्स वि न होइ गमणं, असमत्तसुए अदिने य ॥ ५७११ ॥ ___ सर्वैरपि प्रकारैः छन्दनादिभिर्निष्पकम्पत्वात् षष्ठो यद्यपि शुद्धस्तथापि तस्याप्यसमाप्तश्रुतस्य गुरुभिः 'अदत्ते' अननुज्ञाते गणाद् निर्गमनं 'न भवति' न कल्पते ॥ ५७११ ॥
यैः प्रथमादिभिः पञ्चमान्तैर्नाधिसोढं ते भद्रिकया देवतया भणिता:-अहो! भवद्भिः प्रतिज्ञा निर्वाहिता, गर्जित्वा निर्गतानां दृष्टा भवदीयाऽवस्था !, मयैतद् युष्माकमनुशासनाय कृतम् 15 मा प्रान्ता देवता छलयिष्यति' इति कृत्वा, ततो नाद्यापि किमपि विनष्टम् , गच्छत भूयोऽपि गच्छम् । एवमुक्त्वा सा प्रतिगतेति ॥
एए अण्णे य बहू, दोसा अविदिण्णनिग्गमे भणिया। . मुच्चइ गणममुयंतो, तेहिं लभते गुणा चेमे ॥ ५७१२ ।। एते अन्ये च बहवो दोषाः अवितीर्णस्य-अननुज्ञातस्य गणाद् निर्गमे भणिताः । यस्तु 20 गणं न मुञ्चति से तैदोषैर्मुच्यते, गुणांश्चामून् लभते ॥ ५७१२ ॥
नाणस्स होइ भागी, थिरयरओ दसणे चरित्ते य ।
धन्ना गुरुकुलवासं, आवकहाए न मुंचंति ॥ ५७१३ ॥ 'ज्ञानस्य' अपूर्वश्रुतस्य आभागी भवति, दर्शने च सम्मत्यादिशास्त्रावगाहनादिना चरणे च सारणादिना स्थिरतरो भवति, अत एव 'धन्याः' धर्मधनं लब्धारः शिष्या गुरुकुलवास 25 'यावत्कथया' यावज्जीवं न मुञ्चन्ति ॥ ५७१३ ॥ किश्च
भीतावासो रई धम्मे, अणाययणवजणा ।
निग्गहो य कसायाणं, एयं धीराण सासणं ॥ ५७१४ ॥ गच्छे 'भीतावासो भवति' आचार्यादिभयमीतैः सदैवाऽऽसितव्यम् , न किमप्यकृत्यं प्रतिसेवितुं लभ्यत इति भावः । 'धर्मे च' वैयावृत्य-खाध्यायादिरूपे रतिर्भवति, 'अनायतनस्य च' 30 स्त्रीसंसर्गप्रभृतिकस्य वर्जनं भवति, कषायाणां चोदीर्णानां आचार्यादीनामनुशिष्ट्या 'निग्रहः'
१'ना-निमन्त्रणा तदादिभिः, आदिशब्दाद आश्लेषणादिभिर्निष्प्र कां० ॥ २ स गणममुश्चन् तैदोषैर्मुच्यते, गुणांश्च 'इमान्' वक्ष्यमाणलक्षणान् लभते ॥ ५७१२ ॥ तानेवाहनाण का• ॥ ३ हन-प्रवचनप्रभाक्नादर्शनादिना चर' का ॥ .. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org