________________
भाष्यगाथाः ५७१०-१८] पञ्चम उद्देशः ।
१५११ विध्यापनं भवति । 'धीराणां' तीर्थकृतामेतदेव 'शासनम्' आज्ञा, यथा-गुरुकुलवासो न मोक्तव्यः ॥ ५७१४ ॥ अपि च
जइमं साहुसंसग्गि, न विमोक्खसि मोक्खसि ।
उजतो व तवे निच्चं, न होहिसि न होहिसि ॥ ५७१५॥ यदि एनां साधुसंसर्गि 'न विमोक्ष्यसि' न परित्यक्ष्यसि ततः 'मोक्ष्यसि' मुक्तो भविष्यसि । यदि च 'तपसि' अनशनादौ सुखलम्पटतया नोद्यतो भविष्यसि ततोऽव्याबाधसुखी न भविष्यसि ॥ ५७१५॥
सच्छंदवत्तिया जेहिं, सग्गुणेहिं जढा जढा ।
अप्पणो ते परेसिं च, निचं सुविहिया हिया ॥ ५७१६ ॥ यैः साधुभिः खच्छन्दवर्तिता 'जढा' परित्यक्ता । कथम्भूता ? सद्भिः-शोभनै नादिमिर्गुणैः 10 'जढा' रहिता, आत्मनः परेषां च' षण्णां जीवनिकायानां नित्यं ते सुविहिता हिता इति प्रकटार्थम् ॥ ५७१६ ॥
जेसिं चाऽयं गणे वासो, सजणाणुमओ मओ।
दुहाऽवाऽऽराहियं तेहिं, निम्विकप्पसुहं सुहं ॥ ५७१७ ॥ 'येषां च' साधूनाम् 'अयम्' इत्यात्मनाऽनुभूयमानो गणे वासः 'मतः' अभिरुचितः 115 कथम्भूतः ? सज्जनाः-तीर्थकरादयस्तेषामनुमतः सज्जनानुमतः । 'तैः' साधुभिः निर्विकल्पसुखं निरुपमसौख्यं 'सुखम्' इति सुखेनैव द्विधाऽप्याराधितम् , तद्यथा-श्रमणसुखं निर्वाणसुखं च । अत्र श्रमणसुखं निरुपममित्थं मन्तव्यम्
नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य ।
यत् सुखमिहैव साघोर्लोकव्यापाररहितस्य ।। (प्रशम० आ० १२८) 20 निर्वाणसुखं तु निरुपमं प्रतीतमेवेति - ॥ ५७१७ ॥
नवधम्मस्स हि पाएण, धम्मे न रमती मती ।
वहए सो वि संजुत्तो, गोरिवाविधुरं धुरं ॥ ५७१८ ॥ नवधर्मणो हि प्रायेण 'धर्म' श्रुत-चारित्ररूपे न रमते मतिः, परं गच्छे वसतस्तस्यापि धर्मे रतिर्भवति । तथा चाह-'सोऽपि' नवधर्मा साधुभिः संयुक्तः संयमधुरामविधुरां वहति । 25 गौरिव द्वितीयेन गवा संयुक्तः 'अविधुरां' अविषमां 'धुरं' शकटभारं वहति, एकस्तु वो, न शक्नोति ।। ५५१८ ॥
एगागिस्स हि चित्ताई, विचित्ताई खणे खणे । १गुरुकुलवासस्यैव गुणकदम्बकं दर्शयति इत्यवतरणं का० ॥ २ जह उज्जतो तवे डे॥ ३ - एतदन्तर्गतः पाठः कां० एव वर्तते ॥ ४'नवधर्मणः' अभिनवप्रवजितस्य साधोः 'हि' स्फुटं प्रायेण कां ॥५°हति । क इव ? 'गौरिव' वृषभ इव, यथाऽसौ द्विती' कां ॥ ६ शक्नोति, एवं साधुरपि एकाकी न संयमधुराधौरेयतामनुभवितुमर्हतीति ॥५७१८॥ एतदपि कुतः? इत्याह-एगागिस्स को.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org