________________
१५०८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मापायप्रकृते सूत्रम् १-४
वादिनमागच्छन्तं श्रुत्वा वादशास्त्राणि चिन्तयति । तं च वादिनं यावत् प्रतिचरति प्रतिवादं च यावत् तस्य प्रयच्छति तावद् व्याघातः । तथा महति गणे प्राधुणका आगच्छेयुः तेषां विश्रामणा पर्युपासना च कर्तव्या ॥ ५६९७ ॥ __ आलोचना च यावत् तेषां श्रूयते, यावच्च ग्लान-बालानां दीयते, तथा प्राघुणकादीनां 5 प्रायोग्यस्य उभयस्य-भक्तस्य पानकस्य चाय चिरमेके पर्यटन्ति, 'अन्ये च निवृत्ता अपि तानागच्छतो यावत् प्रतीक्षन्ते ॥ ५६९८॥
'अतरतः' ग्लानस्य प्रायोग्यौषधादिकं यावद् आनयन्ति, उद्वर्तनादिकं वा तस्य कुर्वन्ति, वैद्यस्य वा 'यद्' मज्जनादिकं परिकर्म कुर्वन्ति तावद् व्याघातः । खेलक्षेत्रे वा खल्पया भिक्षया बाह्यया च हिण्ड्या चिरं क्लेशितः सन् किमधीताम् ? न किञ्चिदित्यर्थः ॥ ५६९९ ॥
ते गंतुमणा बाहिं , आपुच्छंती तहिं तु आयरियं ।
भणिया भणंति भंते !, ण ताव पजत्तगा तुब्भे ॥ ५७००॥ एतैः कारणैः 'तत्र' गच्छे व्याघातं मत्वा 'ते' गृहीतसूत्रार्थाः साधवो बहिर्गन्तुमनस आचार्यमापृच्छन्ति । तत आचार्येण वारिता दिव्य-मानुष्य-तैरश्चोपसर्गसहने विहारे च न तावद् अद्यापि यूयं पर्याप्ताः। एवं भणितास्ते भणन्ति-भदन्त ! युष्मचरणप्रसादेनेशा 15 भविष्यामः ॥ ५७०० ॥
उप्पण्णे उत्सग्गे, दिव्वे माणुस्सए तिरिक्खे य ।
हंदि ! असारं नाउं, माणुस्सं जीवलोगं च ॥ ५७०१॥ दिव्य-मानुष्य-तैरश्चान् उपसर्गान् उत्पन्नान् सम्यगधिसहिष्याम इत्युपस्कारः । कुतः ? इत्याह-'हन्दि' इति हेतूपदर्शने, वयं मानुष्यं जीवलोकं चासारमेव जानीमस्ततस्तद् ज्ञात्वा 20 कथमुपसगोन् न सहिष्यामः ? ॥ ५७०१ ॥
ते निग्गया गुरुकुला, अनं गामं कमेण संपत्ता ।
काऊण विद्दरिसणं, इत्थीरूवेणुवस्सग्गो ॥ ५७०२ ॥ एवमुक्त्वा 'ते' साधवः खच्छन्देन गुरुकुलाद् निर्गताः क्रमेणान्यं ग्रामं सम्प्राप्ताः, तत्र चैकस्यां देवकुलिकायां स्थिताः । तेषां मध्ये यो मुख्यः स प्रतिश्रयपालः स्थितः, शेषा भिक्षार्थ 28 प्रविष्टाः । ततः कयाचिद् देवतया 'विदर्शनं विशेषेण दर्शनीयं रूपं कृत्वा स्त्रीरूपेणोपसर्गः कृतः ॥ ५७०२ ॥ इदमेव सुव्यक्तमाह
पंता व णं छलिजा, नाणादिगुणा व होंतु सिं गच्छे ।
न नियत्तिहितऽछलिया, भद्देयर भोग वीमंसा ॥ ५७०३ ॥ सम्यग्दृष्टिरेका देवता चिन्तयति-एते तावद् अनुपदेशेन प्रस्थिताः अतो माऽमून् प्रान्ता 30 देवता छलयेद्, ज्ञानादयो वा गुणाः "सिं" अमीषां गच्छे वसतां भवन्तु इति कृत्वा केना"प्युपसर्गेणाच्छलिताः सन्तो न निवर्तिष्यन्ते इतिबुद्ध्या भद्रिका समागच्छति । इतरा तु प्रान्ता भोगार्थिनी 'विमर्श वा' परीक्षां कर्तुकामा छलयेत् ॥ ५७०३ ।। १खुलक्षे भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org