________________
भाष्यगाथाः ५६९१-९९]
पञ्चम उद्देशः ।
१५०७
णीयः । असङ्खडानि च साधूनामुत्पद्येरन् तेषां व्युपशमने भूयसी वेला लगति । प्रतिक्रमणे वा प्रभूतसाधुसमूहः क्रमेणालोचयन् चिरेणालोचनां ददाति ॥ ५६९३ ॥ मेरं ठवंति थेरा, सीदंते आवि साहति पवत्ती । थिरकरण सङ्गृहे, तवोकिलंते य पुच्छंति ।। ५६९४ ॥
वा
' स्थविरा:' आचार्या यावद् 'मर्यादां' सामाचारीं स्थापयन्ति तावत् चिरीभवति । यो कोऽपि सामाचार्यां सीदति तस्य प्रवृत्तिर्यावद् आचार्याणां निवेद्यते तावत् स्वाध्यायपरिमन्थः । अभिनवश्राद्धस्य वा स्थिरीकरणार्थं धर्मः कथनीयः । ये च तपखिनो विकृष्टतपसा क्लान्तास्ते 'सुखतपः समस्ति भवताम् ?" इति भूयोभूयः प्रष्टव्याः ५६९४ ॥ आवासिगा निसीहिगमकरेंतें असारणे तमावजे ।
परलोइगं च न कयं सहायगत्तं उवेहाए ।। ५६९५ ।।
10
अत्रावश्यिकी - नैषेधिक्यादिसामाचारीमकुर्वतामा चार्यः सारणां न करोति ततो यत् तदकरणे प्रायश्चित्तं तद् उपेक्षमाण आचार्य आपद्यते । उपेक्षायां च पारलौकिकं सहायत्वं तेषामाचार्येण कृतं न भवति । तदकरणाच्च नासौ तत्त्वतस्तेषां गुरुः । तथा चोक्तम् --
अशासितारं च गुरुं, मन्दस्नेहं च बान्धवम् । अदातारं च भर्तारं, जनस्थाने निवेशयेत् ॥
" आलोए" ति पदं व्याख्याति -
Jain Education International
सम्मोहो मा दोह वि, वियडिज्जंतम्मि तेण न पढंति । पडिपुच्छे पलिमंथो, असंखडं नेव वच्छल्लं ॥ ५६९६ ॥
ये भिक्षाचर्यां गतास्ते आगत्य यावद् आलोचयन्ति तावत् पूर्वागतानां परिवर्तनव्याघातः । अथालोचयतामपि परिवर्तयन्ति तत आचार्या आलोच्यमानं नावधारयन्ति । आलोचकोऽपि 20 सम्यग् हस्तं मात्रकं व्यापारं वा तेन व्याक्षेपेण न स्मरति । एवं 'द्वयेषामपि सम्मोहो मा भूत् इति कृत्वा 'विकट्यमाने' आलोच्यमाने यन्न पठन्ति एष व्याघातः । “पडिपुच्छ" चि द्वारं व्याख्यायते— तस्यान्तिके ये सूत्रार्थप्रतिपृच्छां कुर्वते तेषां प्रत्युत्तरं ददतः स्वाध्यायपरिमन्थः । अथ प्रत्युत्तरं न ददाति ततस्ते रुष्येयुः - 'स्तब्धस्त्वम्, कस्तवान्तिके प्रश्नयिष्यति ?" इत्यादि च जल्पन्ति; ततोऽसङ्घडं भवति । न च प्रतिवचनमप्रयच्छता साधर्मिकवात्सल्यं कृतं भवति 25 ॥ ५६९६ ॥ अथ वादि-प्राघुणक-महाजन - ग्लान- दुर्लभभैक्षद्वाराणि व्याचष्टे --
चिंते वादसत्थे, वादि पडियरति देति पडिवायं ।
१ खुलभि° भा० ताभां० ॥
5
महह- गणे पाहुणगा, वीसामण पञ्जवासणया ।। ५६९७ ।। आलोयणा सुणिञ्जति, जाव य दिजइ गिलाण - बालाणं । हिंडति चिरं अने, पाओगुभयस्स वा अट्ठा ।। ५६९८ ।। पाउग्गोसह उव्वत्तणादि अतरंति जं च वेजस्स । किमहिजउ लुभिक्खे, केसवितो भिक्ख-हिंडीहिं ।। ५६९९ ।।
।। ५६९५ ॥ 15
For Private & Personal Use Only
30
www.jainelibrary.org