________________
१५०६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मापायप्रकृते सूत्रम् १-४
कश्चिद गृहीतसूत्रार्थश्चिन्तयति-सूत्रमर्थश्च मया 'बहू' प्रभूतौ गृहीतौ, नवरमिदानीं मया पूर्वगृहीतं "झरेयव्वं" ति 'स्मर्तव्यं' परिजितं कर्तव्यम् , गच्छे च स्मरणस्यामीभिः 'स्थानैः' कारणैर्व्याघातं ज्ञात्वा निर्गमने मतिं करोति ॥५६९० ॥ कानि पुनस्तानि स्थानानि ? इत्याह
धम्मकह महिड्डीए, आवास निसीहिया य आलोए।
पडिपुच्छ वादि पाहुण, महाण गिलाणे दुलभभिक्खं ॥ ५६९१ ॥ स धर्मकथालब्धिसम्पन्नस्ततो भूयान् जनः श्रोतुमागच्छतीति धर्मकथया व्याघातः । 'महर्द्धिकः' राजादिर्धर्मश्रवणाय समायाति तस्य विशेषतः कथनीयम् , तदावर्जने भूयसामावर्जनात् । तथा महति गच्छे बहवो निर्गच्छन्त आवश्यिकी कुर्वन्ति प्रविशन्तो नैषेधिकी कुर्वन्ति
ते सम्यग् निरीक्षणीयाः । चशब्दाद् असङ्खडव्यवशमनादौ वा भूयसी वेला लगेत् । “आलोए" 10त्ति भिक्षामटित्वा समागतानामन्यसाधूनामालोचयतां यदि परावर्त्यते तत आलोचनाव्याघातः ।
तथा गच्छे वसतो बहवः प्रतिपृच्छानिमत्तमागच्छन्ति तेषां प्रत्युत्तरदाने व्याघातः । तं च बहुश्रुतं तत्र स्थितं श्रुत्वा वादिनः समागच्छन्ति ततस्तेऽपि निग्रहीतव्याः, अन्यथा प्रवचनोपघातः । तथा "महाणि" ति 'महाजने' महति गणे बहवः प्राघूर्णकाः समागच्छन्ति तेषां विश्रामणया पर्युपासनया च व्याघातः । तथा बह्वो महति गणे ग्लानास्तदर्थमौषधादिकमाने15 तव्यम् । दुर्लभं वा तत्र क्षेत्रे भैक्षं तदर्थं चिरमटनीयम् । एवंविधो व्याघातो गच्छे भवतीति
सङ्घहगाथासमासार्थः ॥ ५६९१ । साम्प्रतं विस्तरार्थमभिधित्सुर्धर्मकथाद्वारं सुगममित्यनादृत्य महर्द्धिकद्वारं व्याख्याति-तत्र यो राजा राजामात्योऽपरो वा महर्द्धिको धर्मश्रवणायागच्छति तस्यावश्यं विशेषेण च धर्मः कथनीयः । परः प्राह-किं कारणं महर्द्धिकस्य विशेषतो धर्मकथा क्रियते ? ननु भगवद्भिरित्थमुक्तम् - "जहा पुन्नस्स कत्थई तहा तुच्छस्स कत्थई" 20 (आचा० श्रु० १ अ० २ उ० ६) अत्रोच्यते
कामं जहेव कत्थति, पुन्ने तह चेव कत्थई तुच्छे ।
वाउलणाय न गिण्हइ, तम्मि य रुद्वे बहू दोसा ॥ ५६९२ ॥ 'कामम्' अनुमतमिदं यथैव 'पूर्णस्य' महर्द्धिकस्य धर्मः कथ्यते तथैव 'तुच्छस्य' अल्पर्द्धिकस्यापि कथ्यते, परं स महर्द्धिको व्याकुलनातो यथातथा धर्म कथ्यमानं सम्यग् 'न गृह्णाति' 25न प्रतिपद्यते रोपं च गच्छति, 'तस्मिंश्च' राजेश्वर-तलवरादिके रुष्टे 'बहवः' निर्विषयाज्ञापनादयो दोषाः, अतोऽवश्यं विशेषेण वा तस्य धर्मः कथनीयः; एवं सूत्रार्थस्मरणव्याघातः । अथवा गुरवो महर्द्धिकाय धर्म कथयन्ति तदानीमपि तूष्णीकैर्भवितव्यम् , मा भूत् कोलाहलतस्तस्य सम्यग्धर्माप्रतिपत्तिरिति कृत्वा ॥ ५६९२ ॥
आवश्यिकी-नैषेधिकीपदे चशब्दसूचितं चार्थ व्याचष्टे --- 30 आवासिगा-ऽऽसज-दुपहियादी, विसीयते चेव सवीरिओ वि ।
विओसणे वा वि असंखडाणं, आलोयणं वा वि चिरेण देती ॥ ५६९३ ॥ आवश्यकीकरणे उपलक्षणत्वाद् नैषेधिकीकरणे आसज्जकरणे दुःप्रत्युपेक्षित-दुःप्रमार्जनादिकरणे च 'सवीर्योऽपि' समर्थोऽपि यः प्रमादबहुलतया विषीदति स सम्यग् निरीक्ष्य शिक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org