________________
भाष्यगाथाः ५६८३ - ९० ]
पञ्चम उद्देशः ।
१५०५
अत्र परः प्राह—ननु चानेन सुवर्ण-वज्रदृष्टान्तेनेदमापन्नम् -- अधस्तनसूत्रेभ्यः पञ्चमस्यादिसूत्रं प्रधानतरम् । सूरिराह - नैवम्, प्राधान्यस्यो भयोरप्यापेक्षिकतया तुल्यत्वात् । तथाहिकणएण विणा वरं, न भायए नेव संगहमुवे |
न य तेण विणा कणगं, तेण र अन्नोन्न पाहनं ॥ ५६८७ ॥ कनकेन विना वज्रं 'न भाति' न शोभते न च 'सङ्ग्रहं' सम्बन्धमुपैति, आश्रयाभावात्; 5 न च 'तेन' वज्रेण विना कनकं शोभते, तेन कारणेन 'र' इति निपातः पादपूरणे उभयोरप्यन्योन्यं प्राधान्यम् । एवमधस्तनसूत्राणां कनकतुल्यानां पञ्चमोद्देशकादिसूत्रस्य च वज्रतुल्यस्य पापप्रतिषेधकत्वात् तुल्यमेव प्राधान्यम् || ५६८७ ॥
अनेन सम्बन्धचतुष्टयेनापतितस्यास्यै व्याख्या -- देवश्च स्त्रीरूपं विकुर्व्य निर्ग्रन्थं प्रतिगृह्णीयात्, तच्च निर्ग्रन्थो मैथुनप्रति सेवनप्राप्तो यदि ' खादयेद्' अनुमोदयेत् तत आपद्यते 10 चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥
एवं द्वितीयसूत्रं देवी स्त्रीरूपं विकुर्व्य निर्ग्रन्थं प्रतिगृह्णीयादित्याद्यपि मन्तव्यम् ॥
तृतीयसूत्रम् — देवी पुरुषस्य रूपं विकुर्व्य निर्ग्रन्थीं प्रतिगृह्णीयात्, तच्च निर्ग्रन्थी खादयेद्, मैथुन प्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकमनुद्धातिकं स्थानम् ॥
एवं देवः पुरुषरूपं विकुर्व्य निर्ग्रन्थीं प्रतिगृह्णीयादित्याद्यपि चतुर्थसूत्रं वक्तव्यम् । एष 15 सूत्रचतुष्टयार्थः ॥ अथाद्यसूत्रद्वयं तावद् विवरीषुराह
देवे य इत्थवं, काउं गिण्हे तहेव देवी य ।
दोसु वि य परिणयाणं, चाउम्मासा भवे गुरुगा ।। ५६८८ ॥
देवो देवी वा स्त्रीरूपं कृत्वा निर्ग्रन्थं गृह्णीयात् । ततः किम् ? इत्याह -- ' द्वयोरपि' देवदेवीस्त्रियोः प्रतिसेवने परिणतानां चत्वारो मासा गुरुकाः प्रायश्चित्तं भवेत् ॥ ५६८८ || 20 अथैतयोः सूत्रयोर्विषयसम्भवमाह
-
गच्छगय निग्गए वा, होज तगं तत्थ निग्गमो दुविहो ।
उवएस अणुवसे, सच्छंदेणं इमं तत्थ ।। ५६८९ ।।
गच्छगतस्य गच्छनिर्गतस्य वा 'तद्' अनन्तरोक्तं वृत्तान्तजातं भवेत् । तत्र गच्छाद् निर्गमो द्विविधः - उपदेशेन अनुपदेशेन च । अनुपदेशः स्वच्छन्द इति चैकोऽर्थः । तत्र स्वच्छन्देन 28 इदं गच्छाद् निर्गमनमभिधीयते ॥ ५३८९ ॥
Jain Education International
सुतं अत्थो बहू, गहियाई नवरि मे झरेयव्वं । गच्छम्मिय वाघायं, नाऊण इमेहिं ठाणेहिं ॥ ५६९० ॥
१°भ्यः सुवर्णकल्पेभ्यः पञ्चमस्या दिसूत्रचतुष्टयं वज्रकल्पं प्रधा कां० ॥ २ भारती ण इय संग तामा० ॥ ३ त्रचतुष्टयस्य च कां० ॥ ४ 'स्य सूत्रचतुष्टयस्य व्याख्या - देवः चशब्दो वाक्योपन्यासे स्त्रीरूपं कां० ॥ ९°म् । इह निर्ग्रन्थीसूत्रद्वये यत् परिहारस्थानमिति पदमनुद्वातिक विशेषणतया नोक्तं तद् निर्ग्रन्थीनां परिहारतपो न भवति किन्तु शुद्धतप एवेति ज्ञापनार्थम् । एष कां० ॥
For Private & Personal Use Only
www.jainelibrary.org