________________
15
१५०४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मापायप्रकृते सूत्रम् १-४ प्रायेण तृणपुञ्जाः 'विजनाः' जनसम्पातरहिताः गुह्यकैश्च-व्यन्तरैः सेविताः-अधिष्ठिता भवन्ति, ततस्तेषु तिष्ठतां तैः सह मिथः सम्प्रयोगोऽपि भवेत् , अत इदं सूत्रमारभ्यते । 'अथ' एष पञ्चमोद्देशके आद्यसूत्रचतुष्टयस्य सम्बन्धः ॥ ५६८२ ॥'
__ अवि य तिरिओवसग्गा, तत्थुदिया आयवेयणिज्जा य ।
इमिगा उ होति दिव्वा, ते पडिलोमा इमे इयरे ॥ ५६८३ ॥ 'अपि च' इति सम्बन्धस्य प्रकारान्तराभ्युच्चये । 'तत्र' इति अनन्तरसूत्रे 'तिर्यगुपसर्गाः' व्यालादिकृताः 'आत्मसंवेदनीयाश्च' वातेन कटीग्रहणादयः 'उदिताः' भणिताः, एतेषु प्रस्तुतसूत्रेषु दिव्या उपसर्गा उच्यन्ते । उपसर्गाश्च द्विधा-'प्रतिलोमाः' प्रतिकूलाः 'इतरे च'
अनुकूलाः । तत्र प्रतिकूलाः पूर्वसूत्रोक्ताः, इहानुकूला भण्यन्ते ॥ ५६८३ ॥ 10
अहवा आयावाओ, चउत्थचरिमम्मि पवयणे चेव ।
इमओ बंभावाओ, तस्स उ भंगम्मि कि सेसं ॥ ५६८४ ॥ अथवा चतुर्थोद्देशकचरमसूत्रे आत्मापायः प्रवचनापायश्चोक्तः, अयं पुनः प्रस्तुतसूत्रेषु ब्रह्मव्रतापाय उच्यते । तस्य हि भङ्गे किं नाम शेषमभग्नम् ? अतस्तद्भङ्गो मा भूदिति प्रकृतसूत्रारम्भः ॥ ५६८४ ॥ अथवा चतुर्थेन प्रकारेण सम्बन्धः, तमेवाह
सरिसाहिकारियं वा, इमं चउत्थस्स पढमसुत्तेणं ।
अन्नहिगारम्मि वि पत्थुतम्मि अन्नं पि इच्छंति ॥ ५६८५ ॥ अथवा इदं सूत्रं चतुर्थोद्देशकस्य 'प्रथमसूत्रेण' "तओ अणुग्घाइया पण्णत्ता" इत्यादिरूपेण समं सदृशाधिकारिकम् , तत्राप्यनुद्धातिकाधिकार उक्त इहापि स एवाभिधीयत इति भावः ।
आह-चतुर्थप्रथमसूत्रानन्तरमपराणि भूयांसि सूत्राणि गतानि तेषु चापरापरेऽधिकारास्ततः 20 कथमयं सम्बन्धो घटते ? इत्याह-अन्यस्मिन्नधिकारे प्रस्तुतेऽपि अन्यमधिकारमिच्छन्ति सूरयः ॥ ५६८५ ॥ तथा चात्र दृष्टान्तः
जह जाइरूवधातुं, खणमाणों लभिज उत्तमं वयरं ।।
तं गिण्हइ न य दोसं, वयंति तहियं इमं पेवं ॥ ५६८६ ॥ यथा जातरूपं-सुवर्णं तस्य धातुं खनमानो यदि उत्तमं वज्रं लभेत ततस्तं गृह्णाति न 25 च तस्य वजं गृह्णतः कमपि दोषं वदन्ति । एवम् 'इदमपि' प्रस्तुतमपराधिकारे प्रस्तुतेऽपराधिकारग्रहणं न विरुध्यते ॥ ५६८६ ॥
१ द्वितीयप्रकारेण सम्बन्धमाह इत्यवतरणं कां०॥ २ °ताः, इमे तु एतेषु पुनः प्रस्तु कां० ॥ ३ °सूत्रे प्रोक्ताः, इह पुनरनु कां० ॥ ४ तृतीयेनापि प्रकारेण सम्बन्धः समस्तानि (?) दर्शयति इत्यवतरणं कां ॥ ५ °सूत्रे नीचतरायां वसतौ अवनतानां प्रविशत आत्मा कin६°५ चतर्ष व कां० ॥ ७°सुत्रचतुष्टयार कां०॥ ८ समम 'इदं' सत्रचतष्यं सदृशाधिकारिकं मन्तव्यम् , तत्रा कां० ॥ ९ °हाति, इदं काका व्याख्येयम्, ततः किं न गृहाति ? अपि तु गृह्णात्येव, न च तस्य कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org