________________
10
भाष्यगाथाः ५५८३-९१] चतुर्थ उद्देशः ।
१४७९ एसेव गमो णियमा, गणि आयरिए य होति णायव्यो ।
नवरं पुण नाणत्तं, अणवट्टप्पो य पारंची ॥५५८७॥ एष एव गमो नियमाद् 'गणिनः' उपाध्यायस्य आचार्यस्य चशब्दाद् गणावच्छेदिकस्य वा मन्तव्यः । नवरं पुनरत्र नानात्वम्-अधस्तादेकैकपदहासेन यत्र भिक्षोर्मूलं तत्रोपाध्यास्यानवस्थाप्यम् , आचार्यस्य पाराश्चिकम् ॥ ५५८७ ॥ तपोहँ च प्रायश्चित्तमित्थं विशेषयितव्यम्।
भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं ।
उज्झाए आयरिए, दोहि वि गुरुगं च णाणत्तं ॥ ५५८८॥ .. भिक्षोरेतानि प्रायश्चित्तानि 'द्वाभ्यामपि' तपः-कालाभ्यां लघुकानि, गणावच्छेदिकस्यैकतरेण तपसा कालेन वा गुरुकाणि, उपाध्यायस्याचार्यस्य च 'द्वाभ्यामपि' तपः-कालाभ्यां गुरुकाणि । एतद् 'नानात्वं' विशेषः ॥ ५५८८ ॥
काऊण अकाऊण व, उवसंत उवद्वियस्स पच्छित्तं ।
सुत्तेण उ पट्टवणा, असुत्तें रागो व दोसो वा ॥ ५५८९ ॥ गृहस्थस्य प्रहारादिकमपकारं कृत्वाऽकृत्वा वा यदि उपशान्तः-निवृत्तः प्रायश्चित्तप्रतिपत्त्यर्थं चालोचनाविधानपूर्वकमपुनःकरणेनोपस्थितस्तदा प्रायश्चित्तं दातव्यम् । कथम् ? इत्याहसूत्रेण प्रायश्चित्तं प्रस्थापनीयम् । असूत्रोपदेशेन तु प्रस्थापयतो रागो वा द्वेषो वा भवति, 15 प्रभूतमापन्नस्य खल्पदाने रागः स्तोकमापन्नस्य प्रभूतदाने द्वेषः ॥ ५५८९ ।। एवं राग-द्वेषाभ्यां प्रायश्चित्तदाने दोषमाह
थोवं जति आवण्णे, अतिरेगं देति तस्स तं होति ।
सुत्तेण उ पट्ठवणा, सुत्तमणिच्छंतें निजुहणा ॥ ५५९०॥ स्तोकं प्रायश्चित्तमापन्नस्य यदि अतिरिक्तं ददाति ततो यावताऽधिकं तावत् 'तस्य' प्राय-20 श्चित्तदातुः प्रायश्चित्तम् आज्ञादयश्च दोषाः, अथोनं ददाति ततो यावता न पूर्यते तावद आत्मना प्राप्नोति, अतः सूत्रेण प्रस्थापना कर्तव्या । यस्तु सूत्रोक्तं प्रायश्चित्तं नेच्छति स वक्तव्यः-अन्यत्र शोधिं कुरुष्व । एषा नियूहणा भण्यते ॥ ५५९० ॥ अस्या एव पूर्वार्द्ध व्याचष्टेजेणऽधियं ऊणं वा, ददाति तावतिअमप्पणा पावे ।
25 अहवा सुत्तादेसा, पावति चतुरो अणुग्धाता ॥ ५५९१॥ 'येन' याघता अधिकं ऊनं वा ददाति तावद् आत्मना प्राप्नोति । अथवा सूत्रादेशादूनाऽतिरिक्तं ददानश्चतुरोऽनुद्धातान् मासान् प्राप्नोति । तच्चेदं निशीथदशमोद्देशकान्तर्गतं सूत्रम्
जे उग्घाइए अणुग्याइयं देइ जे अणुग्याइए उग्याइयं देइ से आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं (सू० १७-१८)। ॥५५९१ ॥ अथ द्वितीयपदमाह-30
बितियं उप्पाएउं, सासणपंते असज्झे पंच वि पयाई । १ नेयव्यो ताभा ॥ २ °ण, तुशब्दोऽवधारणे, सूत्रेणैव प्रायश्चित्तस्य प्रस्थापना कर्त्तव्या, नासूत्रेण । यस्तु का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org