________________
१४७८
10
तं चैव णिवेती, बंधण णिछुम्भण कडगमद्दो य । आयरिए गच्छम्मिय, कुल गण संघे य पत्थारो ।। ५५८३ ॥
स गृहस्थः 'तं' संयतं वधार्थमागतं दृष्ट्वा कदाचित् तत्रैव 'निष्ठापयति' व्यापादयति, पाणैर्वा बन्धापयति, . ग्राम-नगरादेर्वा निर्द्धाटयति, कटकमर्देन वा मृद्वाति, अथवा * ‘कटकमर्दः' एकस्य रुष्टः सर्वमपि गच्छं व्यापादयति, यथा पालकः स्कन्दकाचार्य गच्छम् । अथवा 'बन्धन-निष्काशनादिकमाचार्यस्यापरगच्छस्य वा करोति । तथा कुलसमवायं कृत्वा कुलस्य बन्धनादिकं कुर्यात् एवं गणस्य वा सङ्घस्य वा । एष प्रस्तारः ।। ५५८३ ॥ एवमेकाकिनो व्रत आरोपणा दोषाश्च भणिताः । अथ सहायसहितस्यारोपणामाहसंजतगणे गिहिंगणे, गामे नगरे व देस रजे य ।
"
अहिवति रायकुलम्मिय, जा जहिँ आरोवणा भणिया ।। ५५८४ |
सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ अधिकरणप्रकृते सूत्रम् ३०
बहवः संयताः संयतगणः तं सहायं गृह्णाति । एवं गृहिगणं वा सहायं गृह्णाति । स च गृहिणी ग्रामं वा नगरं वा देशो वा राज्यं वा भवेत्, ग्रामादिवास्तव्यजनसमुदाय इत्यर्थः । एतेषां वा संयतादीनां येऽधिपतयस्तान् वा सहायत्वेन गृह्णाति, अन्यद्वा राजकुलं गृहीत्वा गच्छति, यथा कालकाचार्येण शकराजवृन्दम् । अत्र चैकाकिनो या 'यत्र' सङ्कल्पादावारोपणा 15 भणिता सैवेहापि द्रष्टव्या ।। ५५८४ ॥ एतदेव व्याचष्टे -
संजयगणो तदधिवो, गिही तु गाम पुर देस रजे वा । एतेसिं चिय अहिवा, एगतरजुतो उभयतो वा ।। ५५८५ ।।
'संयतगणः ' प्रतीतः । तेषां - संयतानामधिपः तदधिपः, आचार्य इत्यर्थः । ये तु गृहिणस्ते ग्राम-पुर-देश- राज्यवास्तव्याः एतेषामधिपतयो वा भवेयुः । तत्र ग्रामाधिपतिः - भोगिकादिकः, 20 पुराधिपतिः - श्रेष्ठी कोट्टपालो वा, देशाधिपतिः - देशारक्षिको देशव्यापृतको वा, राज्याधिपति:महामन्त्री राजा वा । एतेषामेकतरेणोभयेन वा युक्तो व्रजति ।। ५५८५ ॥
तत्रेयं प्रायश्चित्तमार्गणा -
तहिँ वच्चते गुरुगा, दोसु तु छलहुग गहणें छग्गुरुगा । उगणि पहरणें छेदो, मूलं जं जत्थ वा पंथे ॥ ५५८६ ॥
25
'संयतगणेन तदधिपेन वा उभयेन वा सहाहं व्रजामि' इति सङ्कल्पे चतुर्लघु । पद भेदमादौ कृत्वा तत्र व्रजतश्चतुर्गुरु । प्रहरणस्य मार्गणे दर्शने च द्वयोरपि पड्लघु । प्रहरणस्य ग्रहणे षड्गुरु । उद्गीर्णे प्रहरणे छेदः । प्रहारे दत्ते मूलम् । 'यद् वा' परितापनादिकं पृथिव्यादिविनाशनं 'यत्र' पथि ग्रामे वा करोति तन्निष्पन्नमपि मन्तव्यम् । तथा गृहस्थवर्गेऽपि 'ग्रामेण वा ग्रामाधिपतिना यावद् राज्येन वा राज्याधिपतिना वा उभयेन वा सह व्रजामि' इति सङ्कल्पे 30 चतुर्गुरु । पथि गच्छतः प्रहरणं च गृह्णतः षड्लघु । गृहीते षड्गुरु । शेषं प्राग्वत् । एवं भिक्षोः प्रायश्चित्तमुक्तम् ।। ५५८६ ॥
१. एतदन्तर्गतः पाठः भा० कां० एव वर्त्तते ॥ २ घु, एतच्चार्थाद् व्याख्यातम् ।
For Private & Personal Use Only
Jain Education Inte पद" को• ॥
www.jainelibrary.org