________________
१४७७
भाष्यगाथाः ५५७४-८२) चतुर्थ उद्देशः ।
- सिट्ठम्मि न संगिण्हति, संकेतम्मि उ अपेसणे लघुगा।
गुरुगा अजयणकहणे, एगतरपतोसतो जं च ॥ ५५७९ ॥ अनुपशान्ते साधौ गणान्तरं सक्रान्ते मूलाचार्येण साधुसङ्घाटकस्तत्र प्रेषणीयः । तेन च सङ्घाटकेन 'शिष्टे' कथिते सति द्वितीयाचार्यों न सङ्गहीयात् । अथ मूलाचार्यः सङ्घाटकं न प्रेषयति तदा चतुर्लघु । सङ्घाटको यद्ययतनया कथयति ततश्चतुर्गुरु । अयतनाकथनं नाम-5 बहुजनमध्ये गत्वा भणति-एष निर्धर्मा गृहिभिः सममधिकरणं कृत्वा समायातः, सकले. नापि गच्छेन भणितो नोपशान्तः । एवमयतनया कथिते स साधुरेकतरस्य-गृहिणः साधुसङ्घाटकस्य मूलाचार्यस्य वा प्रद्वेषतो यत् करिष्यति तन्निष्पन्नं प्रायश्चित्तम् ॥ ५५७९ ॥ तस्मादयं विधिः--
उवसामितो गिहत्थो, तुमं पि खामेहि एहि वच्चाहि ।
दोसा हु अणुवसंते, ण य सुज्झति तुज्झ सामइगं ॥ ५५८०॥ __ पूर्व गुरूणामेकान्ते कथयित्वा ततः खयमेकान्ते स भण्यते-उपशामितः स गृहस्थः, एहि व्रजामः, त्वमपि तं गृहस्थं क्षामय, अनुपशान्तस्येह परत्र च बहवो दोषाः, समभावः सामायिकं तच्चैवं सकषायस्य भवतः 'न शुद्ध्यति' न शुद्धं भवति । एवमेकान्ते भणितो यदि नोपशाम्यति ततो गणमध्येऽप्येवमेव भणनीयः ॥ ५५८० ॥ ततोऽपि कश्चिन्नोपशाम्येत् 15 प्रत्युत खचेतसि चिन्तयेत् 'तस्य गृहिणो निमित्तेनेहाप्यवकाशं न लभे' ततः
तमतिमिरपडलभूतो, पावं चिंतेइ दीहसंसारी।।
पावं ववसिउकामे, पच्छित्ते मग्गणा होति ॥ ५५८१ ॥ कृष्णचतुर्दशीरजन्यां भाखरद्रव्याभावस्तम उच्यते, तस्यामेव च रात्रौ यदा रजो-धूमधूमिका भवति तदा तमस्तिमिरं भण्यते, यदा पुनस्तस्यामेव रजन्यां रजःप्रभृतयो मेघदुर्दिनं च 20 भवति तदा तमस्तिमिरपटलमभिधीयते । यथा तत्रैवान्धकारे पुरुषः किञ्चिदपि न पश्यति एवं यस्तीन-तीव्रतर-तीव्रतमेन कषायोदयेनान्धीभूतः स तमस्तिमिरपटलभूतो भण्यते, भूतशब्दस्येहोपमार्थवाचकत्वात् । एवम्भूतश्चेह-परलोकहितमपश्यन् दीर्घसंसारी तस्य गृहस्थस्योपरि 'पापम्' 'ऐश्वर्याद् जीविताद्वा ग्रंशयिष्यामि' इति रूपं चिन्तयति । एवं च पापं कर्तुं व्यवसिते तस्मिन्नियं प्रायश्चित्ते मार्गणा भवति ॥ ५५८१ ॥
25 वच्चामि वच्चमाणे, चउरो लहुगा य होति गुरुगा य ।
उग्गिण्णम्मि य छेदो, पहरणे मूलं च जं जत्थ ॥ ५५८२ ॥ 'व्रजामि, तं गृहस्थं व्यपरोपयामि' इति सङ्कल्पे चतुर्लघवः । पदभेदादारस्य पथि व्रजतश्चतुर्गुरवः । यष्टि-लोष्टादिकं प्रहरणं मार्गयति षड्लघवः । प्रहरणे लब्धे गृहीते च षड्गुरवः । उद्गीणे प्रहारे छेदः । प्रहारे पतिते यदि न म्रियते ततश्छेद एव । अथ मृतस्ततो मूलम् । 30 यच्च यत्र परितापनादिकं सम्भवति तत् तत्र वक्तव्यम् ॥ ५५८२ ॥ एते चापरे दोषाः--
१°ति तस्स साम° ताभा० विना ॥ २ °तः सन् कृत्यमकृत्यं वा न किमपि पश्यति स तम° का ० ॥ ३ पापं 'व्यवसितुकामे' कर्तुमनसि तस्मि का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org