________________
१४७६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अधिकरणप्रकृते सूत्रम् ३० गताश्चानुकूलवचोभिः 'अनुलोमन' प्रगुणीकरणं तस्य कुर्वन्ति । अथासौ गृहस्थो ब्रूयात्आनयत तावत् तं कलहकारिणं येनैकवारं पश्यामः पश्चात् क्षमिष्ये न वा । ततो वृषभास्तदभिप्राय ज्ञात्वा तं साधु गृहिणः समीपमानयन्ति । अथासौ साधुनेंच्छति ततो बलादपि वृषभास्तं तत्र नयन्ति ॥ ५५७३ ॥ ते च वृषभा ईदृशगुणयुक्ताः प्रस्थाप्यन्ते
तस्संबंधि सुही वा, पगता ओयस्सिणो गहियवक्का।
___ तस्सेव सुहीसहिया, गमेंति वसभा तगं पुव्वं ॥ ५५७४ ॥ - तस्य-गृहिणः संयतस्य वा सम्बन्धिनः सुहृदो वा ते भवेयुः, 'प्रगताः' लोकपसिद्धाः 'ओजखिनः' बलीयांसः 'गृहीतवाक्याः' आदेयवचसः, ईदृशा वृषभाः 'तस्यैव' गृहिणः
सुहृद्भिः सहिताः 'तकं' गृहस्थं पूर्व 'गमयन्ति' प्रज्ञापयन्ति ॥ ५५७४ ॥ कथम् ? इत्याह10
सो निच्छुब्भति साहू, आयरिए तं च जुजसि गमेतुं ।
नाऊण वत्थुभावं, तस्स जती णिति गिहिसहिया ॥ ५५७५ ॥ - येन साधुना त्वया सह कलहितं स साधुराचार्यैः साम्प्रतं निष्काश्यते, अस्मदीयं च वचो गुरवो न सुष्ठु शृण्वन्ति, अत आचार्यान् गमयितुं त्वं 'युज्यसे' युक्तो भवसि । एवमुक्ते यद्याचार्य गमयति क्षामयति च ततो लष्टम् । अथ ब्रूते-पश्यामस्तावत् तं कलहकारिणम् ; ॥ ततो ज्ञात्वा वस्तुनः-गृहस्थस्य भावं-'किमयं हन्तुकामस्तमानाययति ? उत क्षामयितुकामः ?' एवमभिप्रायं ज्ञात्वा तस्य ये सुहृदस्तैर्गृहिभिः सहिता यतयस्तं साधुं तत्र नयन्ति ॥ ५५७५॥ अथासौ गृही तीव्रकषायतया नोपशाम्यति ततस्तस्य साधोर्गच्छस्य च रक्षणार्थमयं विधिः
वीसुं उवस्सए वा, ठवेंति पेसंति फड्डपतिणो वा ।
देति सहाते सव्वे, व ऐति गिहिते अणुवसंते ॥ ५५७६ ॥ 20 'विष्वग्' अन्यस्मिन्नुपाश्रये तं साधु स्थापयन्ति, अन्यग्रामे वा यः स्पर्द्धकपतिस्तस्यान्तिके
प्रेषयन्ति । निर्गच्छतश्च तस्य सहायान् ददति । अथ मासकल्पः पूर्णस्ततः सर्वेऽपि 'निर्यन्ति' निर्गच्छन्ति ॥ ५५७६ ॥ एष गृहस्थेऽनुपशान्ते विधिः । अथ गृहस्थ उपशाम्यति न साधुस्तदा तस्येदं प्रायश्चित्तम्
अविओसियम्मि लहुगा, भिक्ख वियारे य वसहि गामे य ।
गणसंकमणे भण्णति, इहं पि तत्थेव वच्चाहि ॥ ५५७७ ॥ अधिकरणेऽव्यवशमिते यदि भिक्षां हिण्डते, विचारभूमि विहारभूमि वा गच्छति, वसतेर्निर्गत्यापरसाधुवसतिं गच्छति, ग्रामानुग्रामं विहरति; एतेषु सर्वेषु चतुर्लघु । अथापरं गणं सामति ततस्तैरन्यगणसाधुभिर्मण्यते-इहापि गृहिणः क्रोधनाः सन्ति ततस्तत्रैव ब्रज ॥ ५५७७ ॥ इदमेव सुव्यक्तमाह
इह वि गिही अविसहणा, ण य वोच्छिण्णा इहं तुह कसाया ।
अमेसि पाऽऽयासं, जणइस्ससि वच्च तत्थेव ॥ ५५७८ ॥ 'इहापि' ग्रामे गृहिणः 'अविषहणाः' क्रोधनाः सन्ति, न चेह समागतस्य तव कषाया व्यवच्छिन्नाः, अतः 'अन्येषामपि' अस्मदादीनामायासं जनयिष्यसि तस्मात् तत्रैव व्रज ॥१५७८॥
25
...
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org