________________
भाष्यगाथाः ५५६७-७३] चतुर्थ उद्देशः ।
१४७५ गृहस्थमुपशमय्य गुरूणामन्तिके आलोचना दातव्या । ततः शोधिः प्रतीच्छनीया ॥५५६८॥ इदमेव भावयति
अहिगरण गिहत्थेहि, ओसार विकड्डणा य आगमणं ।।
आलोयण पत्थवणं, अपेसणे होंति चउलहुगा ॥ ५५६९ ।। गृहस्थैः सममधिकरणे उत्पन्ने द्वितीयेन साधुना तस्य साधोरपसारणं कर्तव्यम् । अथ नाप-5 सरति ततः "विकड्डणा य" त्ति बाहौ गृहीत्वाऽऽकर्षणीयः, इदं च वक्तव्यम्-न वर्तते मम स्वया साधिकरणेन समं भिक्षामटितुम् अतः प्रतिश्रयोपरि निवर्तावहे । एवमुक्त्वा प्रतिश्रयमागम्य गुरूणामालोचनीयम् । ततो गुरुभिरुपशमनार्थं वृषभास्तस्य गृहस्थस्य मूले प्रेषणीयाः । यदि न प्रेषयन्ति तदा चतुर्लघु ॥ ५५६९ ॥ आणादिणो य दोसा, बंधण णिच्छुभण कडगमदो य ।
10 बुग्गाहण सत्थेण च, अगणुवगरणं विसं वारे ॥ ५५७० ॥ - आज्ञादयश्च दोषाः । स च गृहस्थो येन साधुना सहाधिकरणं जातं तस्य अनेकेषां वा साधूनां बन्धनं निष्काशन वा कुर्यात् । 'कटकमदों नाम' सर्वानपि साधून् कोऽपि व्यपरोपयेत् । व्युराहणं वा लोकस्य कुर्यात्-नास्त्यमीषां दत्ते परलोकफलम् , यद्वा अमी संज्ञां व्युत्सृज्य विकिरन्ति न च निलेपयन्ति । खगादिना वा शस्त्रेण साधूनाहन्यात् , अमिकायेन वा प्रतिश्रयं 15 दहेत् , उपकरणं वा अपहरेत् , विष-गरादिकं वा दद्यात् , भिक्षां वा वारयेत् ।। ५५७०॥ तच वारणमेतेषु स्थानेषु कारयेत्
रज्जे देसे गामे, णिवेसण गिहें णिवारणं कुणति ।
जा तेण विणा हाणी, कुल गण संघे य पत्थारो ॥ ५५७१ ॥ राज्ये सकलेऽपि निवारणं कारयेत् एतेषां भक्तमुपधिं वसतिं वा मा दद्यात् । एवं देशे 20 ग्रामे निवेशने गृहे वा निवारणं करोति । ततो या 'तेन' भक्तादिना विना परिहाणिः तां वृषभान् अप्रेषयन् गुरुः प्रामोति । अथवा यः प्रभवति स कुलस्य गणस्य सङ्घस्य वा 'प्रस्तारं' विस्तरेण विनाशं कुर्यात् ॥ ५५७१ ॥
एयस्स णत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो।
पभु कुजा पत्थारं, अपभू वा कारवे पभुणा ॥ ५५७२ ॥ 25 गृहस्थश्चिन्तयति-'एतस्य साधो स्ति दोषः किन्तु य एनमपरीक्ष्य दीक्षितवान् तस्यायं दोषः, अतस्तमेव घातयामि' इति विचिन्त्य प्रभुः खयमेव प्रस्तारं कुर्यात् । अप्रभुरपि द्रव्यं राजकुले दत्त्वा प्रभुणा कारापयेत् ॥ ५५७२ ॥ यत एते दोषाः
तम्हा खलु पट्ठवणं, पुव्वं वसभा समं च वसभेहिं ।
अणुलोमण पेच्छामो, ऐति अणिच्छं पि तं वसभा ॥ ५५७३ ॥ 30 तस्माद् वृषभाणां तत्र प्रस्थापनं कर्तव्यम् । "पुव्" ति येन साधुनाऽधिकरणं कृतं तं तावद् न प्रेषयन्ति यावद् वृषभाः पूर्व प्रज्ञापयन्ति । किं कारणम् ? उच्यते-स गृहस्थस्तं दृष्ट्वा कदाचिदाहन्यात् । अथ ज्ञायते 'नाहनिष्यति' ततो वृषभैः समं तमपि प्रेषयन्ति । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org