SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १४७४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ अधिकरणप्रकृते सूत्रम् ३० ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'भिक्षुः' प्रागुक्तः, चशब्दाद् उपाध्यायादिपरिग्रहः, 'अधिकरणं' कलहं कृत्वा नो कल्पते तस्य तदधिकरणमव्यवशमय्य गृहपतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, व बहिर्विचारभूमौ वा विहारभूमौ वा निष्क्रमितुं वा प्रवेष्टुं वा, » ग्रामानुग्रामं वा 'द्रोतुं' विहर्तुम् , गणाद्वा गणं सङ्क्रमितुम् , वर्षावासं वा 5 वस्तुम् । किन्तु यत्रैवात्मन आचार्योपाध्यायं पश्येत् ; कथम्भूतम् ? 'बहुश्रुतं' छेदग्रन्थादिकुशलं 'बबागमम्' अर्थतः प्रभूतागमम् ; तत्र तस्यान्तिके 'आलोचयेत्' वापराधं वचसा प्रकटयेत् , 'प्रतिक्रामेत्' मिथ्यादुष्कृतं तद्विषये दद्यात् , 'निन्द्याद' आत्मसाक्षिकं जुगुप्सेत, 'गहेत' गुरुसाक्षिकं निन्द्यात् । इह च निन्दनं गर्हणं वा तात्त्विकं तदा भवति यदा तत्करणतः प्रतिनिवर्तते तत आह-'व्यावर्तेत' तस्मादपराधपदाद् निवर्तेत । व्यावृत्तावपि कृतात् पापात् 10 तदा मुच्यते यदाऽऽत्मनो विशोधिर्भवति तत आह-आत्मानं 'विशोधयेत्' पापमलस्फेटनतो निर्मलीकुर्यात् । विशुद्धिः पुनरपुनःकरणतायामुपपद्यते ततस्तामेवाह-अकरणता-अकरणीयता तया अभ्युत्तिष्ठेत् । पुनरकरणतया अभ्युत्थानेऽपि विशोधिः प्रायश्चित्तप्रतिपत्त्या भवति तत आह–'यथार्ह' यथायोग्यं तपःकर्म प्रायश्चित्तं प्रतिपद्येत । 'तच्च' प्रायश्चित्तमाचार्येण 'श्रुतेन' श्रुतानुसारेण यदि 'प्रस्थापितं' प्रदत्तं तदा 'आदातव्यं' ग्राह्यं 'स्याद्' भवेत् , अथ 15 श्रुतेन न प्रस्थापितं तदा नादातव्यं स्यात्, ‘स च' आलोचको यदि श्रुतेन प्रस्थाप्यमानमपि तत् प्रायश्चित्तं 'नाददाति' न प्रतिपद्यते ततः सः 'नियूहितव्यः', 'अन्यत्र शोधिं कुरुष्व' इति निषेधनीयः स्यादिति सूत्रार्थः ॥ अथ भाष्यविस्तरः अचियत्तकुलपवेसे, अतिभूमि अणेसणिजपडिसेहे । अवहारऽमंगलुत्तर, सभावअचियत्त मिच्छत्ते ॥ ५५६७ ॥ 20 कथमधिकरणमुत्पन्नम् ? इत्यस्यां जिज्ञासायामभिधीयते-कस्मिंश्चित् कुले साधवः प्रवि शन्तोऽप्रीतिकराः तत्राजानतामनाभोगाद्वा प्रवेशे स गृहपतिराकोशेद्वा हन्याद्वा, साधुरप्यसहमानः प्रत्याक्रोशेत् ततोऽधिकरणमुत्पद्यते । एवमतिभूमि प्रविष्टे, अनेषणीयभिक्षाया वा प्रतिषेधे, शैक्षस्य वा संज्ञातकस्यापहारे, यात्रापस्थितस्य वा गृहिणः साधुं दृष्ट्वाऽमङ्गलमिति प्रतिपत्ती, समयविचारेण वा प्रत्युत्तरं दातुमसमर्थे गृहस्थे, खभावेन वा काऽपि साधौ ‘अचियत्ते' अनिष्टे 25 दृष्टे, अभिग्रहमिथ्यादृष्टेर्वा सामान्यतः साधौ अवलोकिते अधिकरणमुत्पद्येत ॥ ५५६७॥ पडिसेधे पडिसेधो, भिक्ख वियारे विहार गामे वा। दोसा मा होज बहू, तम्हा आलोयणा सोधी ॥ ५५६८॥ भगवद्भिः प्रतिषिद्धम्-न वर्तते साधूनामधिकरणं कर्तुम् । एवंविधे प्रतिषेधे भूयः प्रतिषेधः क्रियते-कदाचित् तद् अधिकरणं गृहिणा समं कृतं भवेत् , कृत्वा च तस्मिन् अनुप30 शमिते भिक्षायां न हिण्डनीयम् , विचारभूमौ विहारभूमौ वा न गन्तव्यम् , ग्रामानुग्रामं वा न विहर्तव्यम् । कुतः ? इत्याह-मा 'बहवः' बन्धन-कटकमदयो दोपा भवेयुः। तस्मात् तं ११ एतचिहान्तर्गतः पाठः भा० एव वर्त्तते ॥ २ एवमेभिः प्रकारैः गृहिणा सममधिकरणे उत्पन्ने सति विधिमाह इत्यवतरणं का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy