________________
१४६६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विष्वग्भ०प्रकृते सूत्रम् २९ श्रयाभिमुखं नागच्छतीति भावः । अपि च यस्यां दिशि ग्रामस्तदभिमुखं पादयोः क्रियमाणयोरमङ्गलं भवति, लोकश्च गहीं कुर्यात्-अहो ! अमी श्रमणका एतदपि न जानन्ति यद् ग्रामाभिमुखं शबं न क्रियते ॥ ५५३१ ॥ अथ तृणादिद्वारमाह
कुसमुट्ठिएण एकेणं, अन्वोच्छिण्णाएँ तत्थ धाराए ।
संथार संथरिजा, सव्वत्थ समो य कायव्यो ॥ ५५३२ ॥ यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुष्टिनैकेनाव्यवच्छिन्नया धारया संस्तारकं संस्तरेत् , स च सर्वत्र समः कर्तव्यः ।। ५५३२ ॥ विषमे एते दोषाः
विसमा जति होज तणा, उवरि मज्झे तहेव हेट्ठा य ।
मरणं गेलन्नं वा, तिण्हं पि उ णिदिसे तत्थ ।। ५५३३ ॥ 10 'विषमाणि' तृणानि यदि तस्मिन् संस्तारके उपरि वा मध्ये वाऽधस्ताद्वा भवेयुः तदा त्रयाणामपि मरणं ग्लानत्वं वा निर्दिशेत् ॥ ५५३३ ॥ केषां त्रयाणाम् ? इत्याह
उरि आयरियाणं, मज्झे वसभाण हेट्टि भिक्खूणं ।
तिण्हं पि रक्खणहा, सव्वत्थ समा य कायव्या ।। ५५३४ ॥ उपरि विषमेषु तृणेषु आचार्याणां मध्ये वृषभाणामधस्ताद भिक्षुगां मरणं ग्लानत्वं वा 16भवेत् , अतस्त्रयाणामपि रक्षणार्थं सर्वत्र समानि तृणानि कर्तव्यानि ॥ ५५३४ ॥
जत्थ य नत्थि तिणाई, चुण्णेहिं तत्थ केसरेहिं वा ।
कायव्वोऽत्थ ककारो, हेट तकारं च बंधेजा ॥ ५५३५ ॥ यत्र तृणानि न सन्ति तत्र चूर्णैर्वा नागरकेशरैर्वाऽव्यवच्छिन्नया धारया ककारः कर्तव्यः तस्याधस्तात् तकारं च बध्नीयात् , क्त इत्यर्थः । चूर्णानां केशराणां चाभावे प्रलेपकादिभिरपि 20 क्रियते ॥ ५५३५ ॥ अथोपकरणद्वारमाह
चिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि ।
मिच्छत्त सो व राया, कुणति गामाण वहकरणं ॥ ५५३६ ॥ परिष्ठाप्यमाने चिह्नार्थं यथाजातमुपकरणं पावें स्थापनीयम् । तद्यथा-रजोहरणं मुखपोतिका चोलपट्टकः । यदि एतद् न स्थापयन्ति ततश्चतुर्गुरु । आज्ञादयश्च दोषाः चिह्नस्याकरणे 26 भवन्ति । ‘स वा' कालगतो मिथ्यात्वं गच्छेत् । राजा वा जनपरम्परया तं ज्ञात्वा 'कश्चिद मनुष्योऽमीभिरपद्रावितः' इति बुद्ध्या कुपितः प्रत्यासन्नवर्तिनां द्विव्यादीनां ग्रामाणां वैधं कुर्यात् ॥ ५५३६ ॥ अथैतदेव भावयति
___उवगरणमहाजाते, अकरणे उजेणिभिक्खुदिटुंतो।
लिंगं अपेच्छमाणो, काले वइरं तु पाडेत्ति ॥ ५५३७ ॥ 32 यथाजातमुपकरणं यदि तस्य पार्थे न कुर्वन्ति ततोऽसौ देवलोकगतः प्रयुक्तावधिः 'अहम
नेन गृहलिङ्गेन परलिङ्गेन वा देवो जातः' इति मिथ्यात्वं गच्छेत् । उज्जयिनीभिक्षदृष्टान्तश्चात्र भवति, स चावश्यकटीकातो मन्तव्यः (आव० हारि० टीका पत्र ८१३-१) । यस्य १ मीभिरेतगामवास्तव्यैरप? कां ॥ २ वधकरणं कुर्यात्, विनाशमित्यर्थः ॥ कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org