SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५५२२-३१ ] चतुर्थ उद्देशः । १४६५ माकर्षति । तानि च सार्द्धक्षेत्राणि नक्षत्राणि षड् भवन्ति, तद्यथा — उत्तराफाल्गुन्य उत्तराषाढा उत्तराभद्रपदाः पुनर्वसू रोहिणी विशाखा चेति । अथ समक्षेत्रं - त्रिंशन्मुहूर्त भोग्यं यदा नक्षत्रं तत एकः पुत्तलकः कर्तव्यः 'एष ते द्वितीयः' इति च वक्तव्यम् । अकरणेऽपरमेकमाकर्षति । समक्षेत्राणि चामूनि पञ्चदश - अश्विनी कृत्तिका मृगशिरः पुष्यो मघाः पूर्वाफाल्गुन्यो हस्तश्चित्रा अनुराधा मूलं पूर्वाषाढाः श्रवणो धनिष्ठाः पूर्वभद्रपदा रेवती चेति 15 अथा पार्द्धक्षेत्रं - पञ्चदशमुहूर्तभोग्यं तद् नक्षत्रम् अभीचिर्वा तत एकोऽपि पुत्तलको न कर्तव्यः । अपार्द्धक्षेत्राणि चामूनि षट् — शतभिषग् भरणी आर्द्रा अश्लेषा स्वातिर्ज्येष्ठा चेति ॥ ५५२७ ॥ अथ निवर्तनद्वारमाह थंडिल वाघाणं, अहवा वि अतिच्छिए अणाभोगा । भमिऊण उवागच्छे, तेणेव पहेण न नियत्ते ।। ५५२८ ।। 10 तत्र नीयमाने स्थण्डिलस्योदक - हरितादिभिर्व्याघातो भवेत्, अनाभोगेन वा स्थण्डिलमति - क्रान्तं भवेत्, ततः ‘भ्रमित्वा' प्रदक्षिणामकुर्वाणा उपागच्छेयुः, तेनैव पथा न निवर्तेरन् ॥ ५५२८ ॥ जइ तेणेव मग्गेण नियत्तंति तो असमायारी, कयाइ उट्ठेज्जा, सो य जओ चेब उइ तओ चैव पहावर, तत्थ जओ गामो ततो धाविज्जा (आव० पारि० निर्यु० गा० ४७ हारि० टीका पत्र ६३५ - २ ) तत एवं कर्त्तव्यम् - वाघायम्मि ठवेडं, पुत्रं व अपेहियम्मि थंडिले । तह ति जहा से कमा ण होंति गामस्स पडिहुत्ता ।। ५५२९ ॥ स्थण्डिलस्य व्याघाते पूर्व वा स्थण्डिलं न प्रत्युपेक्षितं ततस्तद् मृतकमेकान्ते स्थापयित्वा स्थण्डिलं च प्रत्युपेक्ष्य तथा भ्रमयित्वा नयति यथा तस्य 'क्रम' पादौ ग्रामं प्रति अभिमुखौ न भवतः ॥ ५५२९ ॥ अथ मात्रकद्वारमाह 20 15 सुत्त - ऽत्थतदुभयविऊ, पुरतो घेत्तूण पाणग कुसे य । गच्छति जइ सागरियं, परिद्ववेऊण आयमणं ॥ ५५३० ॥ सूत्रार्थ - तदुभयवेदी मात्रकेऽसंसृष्टपानकं 'कुशांश्च' दर्भान् 'समच्छेदान्' परस्परमसम्बद्धान् हस्तचतुरङ्गुलप्रमाणान् गृहीत्वा पृष्ठतोऽनपेक्षमाणः 'पुरतः ' अग्रतः स्थण्डिलाभिमुखो गच्छति । दर्भाणामभावे चूर्णानि केशराणि वा गृह्यन्ते । यदि सागारिकं ततः शवं परिष्ठाप्य 25 'आचमनं ' हस्त-पादशौचादिकं कर्तव्यम् । आचमनग्रहणेनेदं ज्ञापयति - यथा यथा प्रवचनोडाहो न भवति तथा तथा अपरमपि विधेयम् ॥ ५५३० ॥ अथ शीर्षद्वारमाह 1 जत्तो दिसाऍ गामो, तत्तो सीसं तु होइ कायन्त्रं । उतरक्खणट्ठा, अमंगलं लोगगरिहा य ।। ५५३१ ॥ यस्यां दिशि ग्रामस्ततः शीर्षं शबस्य प्रतिश्रयाद् नीयमानस्य परिष्ठाप्यमानस्य च कर्त - 30 व्यम् । किमर्थम् ? इत्याह- उतिष्ठतो रक्षणार्थम्, यदि नाम कथञ्चिदुत्तिष्ठते तथापि प्रति १ पूर्वप्रत्युपेक्षितस्य स्थण्डिलस्य व्याघातेऽथवा पूर्व स्थण्डिलं न प्रत्युपेक्षितं विस्मृतमित्यर्थः ततस्तद् मृत कां० ॥ २° ऽनवलोकमानः '' कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy