SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ B 10 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विष्वग्भ० प्रकृते सूत्रम् २९ जितणिद्दुवायकुसला, ओरस्सबली य सत्तजुत्ता य । कतकरण अप्पमादी, अभीरुगा जागरंति तहिं ॥। ५५२२ ।। जितनिद्रा उपायकुशलाः ‘औरसबलिनः ' महापराक्रमाः 'सत्त्वयुक्ताः ' धैर्यसम्पन्नाः कृतकरणा अप्रमादिनोऽमीरुकाश्च ये साधवस्ते तत्र तदानीं जाग्रति ॥ ५५२२ ॥ जागरणट्ठाऍ तर्हि, अन्नेसिं वा वि तत्थ धम्मकहा । सुत्तं धम्मक वा, मधुरगिरो उच्चसद्देणं ।। ५५२३ ॥ I जागरणार्थं तत्र तैरन्योन्यं 'अन्येषां वा' श्राद्धादीनां धर्मकथा कर्तव्यो । स्वयं वा सूत्रं 'धर्मकथां वा' धर्मप्रतिबद्धामाख्यायिकां मधुरगिर उच्चशब्देन गुणयन्ति ॥ ५५२३ ॥ अथ बन्धन- च्छेदनपदे व्याख्याति - 16 १४६४ कर- पायगुडे दोरेण बंधिउं पुत्तीए मुहं छाए । अक्खयदेहे खणणं, अंगुलिविच्चे ण बाहिरतो ।। ५५२४ ॥ 'कर- पादाङ्गुष्ठान' कराङ्गुष्ठद्वयं पादाङ्गुष्ठद्वयं च दवरकेण बद्धा मुखपोतिकया मुखं छाद, एतद् बन्धनमुच्यते । तथा अक्षतदेहे तस्मिन् “अंगुलीविच्चे" अङ्गुलीमध्ये चीरके 'खननम्' ईषत्फालनं क्रियते न बाह्यतः, एतत् छेदनं मन्तव्यम् ॥ ५५२४ ॥ येत्, अण्णादुसरीरे, पंता वा देवतत्थ उट्ठेजा । परिणामि डब्बहत्थेण बुज्झ मा गुज्झगा ! मुज्झ ।। ५५२५ ।। एवमपि क्रियमाणे यदि ' अन्याविष्टशरीरः' सामान्येन व्यन्तराधिष्ठितदेह : 'प्रान्ता वा ' प्रत्यनीका काचिद् देवता 'अत्र' अवसरे तत्कलेवरमनुप्रविश्योत्तिष्ठेत् ततः ' परिणामिनीं ' कायिकीं "डब्बहत्थेणं" ति वामहस्तेन गृहीत्वा तत् कडेवरं सेचनीयम् । इदं च वक्तव्यम् - 20 बुध्यस्व बुध्यख गुह्यक ! 'मा मुख' मा प्रमादीः, संस्तारकाद् मा उत्तिष्ठेति भावः ॥ ५५२५ ॥ वित्तासेज रसेज व, भीमं वा अट्टहास मुंचेजा । अभि सुविहिणं, कायव्य विहीय वोसिरणं ।। ५५२६ ।। अन्याधिष्ठितं तत् कडेवरं 'वित्रासयेत्' विकरालरूपं दर्शयित्वा भापयेद् 'रसेद्वा' आराटिं मुञ्चे 'भीमं वा' रोमहर्षजनकं अट्टहासं मुञ्चेत् तथापि तत्राभीतेन सुविहितेन ' विधिना ' 25 पूर्वोक्तेन वक्ष्यमाणेन च व्युत्सर्जनं कर्तव्यम् ॥ ५५२६ ॥ गतं जागरणादिद्वारम् । अथ कुशप्रतिमाद्वारमाह - दोणि य दिवखेत्ते, दव्भमया पुर्तगऽत्थ कायव्वा । समखेत्तम्मिय एक्को, अवड्ड अभिए ण कायव्वो ।। ५५२७ ।। कालगते सति संयते नक्षत्रं विलोक्यते । यदि न विलोकयति ततश्चतुर्गुरु । ततो नक्षत्रे 30 विलोकिते यदि सार्द्धक्षेत्रं तदानीं नक्षत्रम्, सार्द्धक्षेत्रं नाम - पञ्चचत्वारिंशन्मुहूर्त भोग्यं सार्द्धदिनभोग्यमिति यावत्, तदा दर्भमयौ द्वौ पुत्रकौ कर्तव्यौ । यदि न करोति तदाऽपरं साधु १°ला इति द्वयमपि प्रकटार्थम्, 'औ' कां० ॥ २ एतदनन्तरं कां० ग्रन्थाग्रम् - ४००० इति वर्तते ॥ ३ र प्रदेशे 'ख' कां० ॥ ४ तलत्थ ताभा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy