SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १४६३ भाष्यगाथाः ५५१२-२१] चतुर्थ उद्देशः । किमालम्ब्य शोक-भये न कर्तव्ये ? इत्याह सव्वे वि मरणधम्मा, संसारी तेण कासि मा सोगं । जं चप्पणो वि होहिति, किं तत्थ भयं परगयम्मि ॥५५१७ ॥ सर्वेऽपि संसारिणो जीवा मरणधर्माण इत्यालम्ब्य शोकं मा कार्षीः । यच्च मरणमात्मनोऽपि कालक्रमेण भविष्यति तत्र 'परगते' परस्य सञ्जाते किं नाम भयं विधीयते ? न किञ्चिदित्यर्थः । ॥ ५५१७ ॥ गतं "दिवा रात्रौ वा" इति द्वारम् । अथ जागरण-बन्धन-च्छेदनद्वारमाह जं वेलें कालगतो, निकारण कारणे भ निरोधो । जग्गण बंधण छेदण, एतं तु विहिं तहिं कुज्जा ॥ ५५१८ ॥ दिवा रजन्यां वा यस्यां वेलायां कालगतस्तस्यामेव वेलायां निष्काशनीयः । एवं निष्कारणे उक्तम् । कारणे तु निरोधोऽपि भवेत् । निरोधो नाम-कियन्तमपि कालं प्रतीक्षाप्यते । तत्र 10 च जागरणं बन्धनं छेदनं 'एतम्' एवमादिकं विधिं वक्ष्यमाणनीत्या कुर्यात् ॥ ५५१८॥ कैः पुनः कारणैः स प्रतीक्षाप्यते ? इत्याह हिम-तेण-सावयभया, पिहिता दारा महाणिणादो वा । [ओ.नि.१२] ठवणा नियगा व तहिं, आयरिय महातवस्सी वा ।। ५५१९ ॥ रात्रौ दुरधिसहं हिमं पतति, स्तेनभयात् श्वापदभयाद्वा न निर्गन्तुं शक्यते । नगरद्वाराणि 15 वा तदानीं पिहितानि । 'महानिनादो वा' महाजनज्ञातः स तत्र ग्रामे नगरे वा । 'स्थापना वा' तत्र ग्रामादौ ईदृशी व्यवस्था, यथा-रात्रौ मृतकं न निष्काशनीयम् । 'निजका वा' संज्ञातकास्तत्र सन्ति ते भणन्ति-अस्माकमनापृच्छया न निष्काशनीयः । आचार्यों वा स तत्र नगरेऽतीव लोकविख्यातः । 'महातपस्वी वा' प्रभूतकालपालितानशनो मासादिक्षपको वा। एतैः कारण रजन्यां प्रतीक्षाप्यते ॥ ५५१९ ॥ दिवा पुनरेभिः कारणैः प्रतीक्षापयेत्- 20 ___णंतक असती राया, वऽतीति संतेपुरो पुरव ती तु । __णीति व जणणिवहेणं, दार निरुद्धाणि णिसि तेणं ॥ ५५२० ॥ 'णन्तकानां' शुचि-श्वेतवस्त्राणामभावे दिवा न निष्काश्यते । राजा वा सान्तःपुरः पुरपतिर्वा नगरम् 'अतियाति' प्रविशति 'जननिवहेन वा' महता भट-भोजिकादिवृन्देन नगराद् निर्गच्छति ततो द्वाराणि निरुद्धानि, तेन निशि निष्काश्यते । एवं दिवाऽपि प्रतीक्षापणं 25 भवेत् ॥ ५५२० ॥ अत्र चायं विधिः वातेण अणकंते, अभिणवमुक्कस्स हत्थ-पादे उ । कुव्वंतऽहापणिहिते, मुह-णयणाणं च संपुडणं ॥ ५५२१ ॥ वातेन यावद् अद्यापि शरीरकम् आक्रान्तं-स्तब्धं न भवति तावद् अभिनवजीवितमुक्तस्य हस्त-पादान् 'यथाप्रणिहितान्' प्रगुणतया लम्बमानान् कुर्वन्ति, मुख-नयनानां च 'सम्पुटनं' 30 सम्मीलनं कुर्वन्ति ॥ ५५२१ ॥ जागरणादिविधिमाह १ वा "जं वेल" ति विभक्तिव्यत्ययाद् यस्यां का० ॥२ महाणणातो वा ताभा० । “महाणिणादो व ति महायणणादो वा सो" इति चूर्णी विशेषचूर्णौ च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy