SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १४६२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विष्वम्भ०प्रकृते सूत्रम् २९ अतीवोज्ज्वलं बन्धादिच्छादनार्थं तदुपरि स्थापनीयम् । एवं जघन्यतस्त्रीणि वस्त्राणि ग्रहीत- . व्यानि । उत्कर्षतस्तु गच्छं ज्ञात्वा बहून्यपि गृह्यन्ते ॥ ५५११॥ एतेसिं अग्गहणे, चउगुरु दिवसम्मि वणिया दोसा । रत्तिं च पडिच्छंते, गुरुगा उट्ठाणमादीया ॥ ५५१२ ॥ 6 एतेषाम्' एवंविधानां त्रयाणां वस्त्राणामग्रहणे चतुर्गुरु प्रायश्चित्तम् । मलिनवस्त्रप्रावृते च तस्मिन् दिवसतो नीयमाने 'दोषाः' अवर्णवादादयो वर्णिताः । अथैतद्दोषभयाद 'रात्रौ परिष्ठापयिष्यामि' इति बुद्ध्या मृतकं प्रतीक्षापयति ततश्चतुर्गुरुका उत्थानादयश्च दोषाः ॥ ५५१२ ॥ कथं पुनरवर्णवादादयो दोषाः ? इत्याह ___ उज्झाइए अवण्णो, दुविह णियत्ती य मइलवसणाणं । 10 तम्हा तु अहत कसिणं, धरेंति पक्खस्स पडिलेहा ॥ ५५१३ ॥ "उज्झाइए" मलिनकुचेले तस्मिन् नीयमानेऽवर्णो भवति-अहो ! अमी वराका मृता अपि शोभा न लभन्ते । मलिनवस्त्राणां च दर्शने द्विविधा निवृत्तिर्भवति, सम्यक्त्वं प्रव्रज्यां च ग्रहीतुकामाः प्रतिनिवर्तन्ते । शुचि-श्वेतवस्त्रदर्शने तु लोकः प्रशंसति-अहो ! शोभनो धर्म इति । यत एवं तस्माद् 'अहतम्' अपरिभुक्तं 'कृत्स्नं' प्रमाणतः प्रतिपूर्ण वस्त्रत्रिक धार15 णीयम् । पक्षस्य चान्ते तस्य प्रत्युपेक्षणा कर्तव्या, दिवसे दिवसे प्रत्युपेक्ष्यमाणं हि मलिनीभवेत् ॥ ५५१३ ॥ गतं णन्तकद्वारम् । अथ "दिवा रात्रौ वा कालगतः" इति द्वारमाह आसुकार गिलाणे, पच्चक्खाए व आणुपुव्वीए । दिवसस्स व रत्तीइ व, एगतरे होजऽवकमणं ॥ ५५१४ ॥ आशु-शीघ्रं सजीवस्य निर्जीवीकरणमाशुकारः, तत्कारणत्वाद् अहि-विष-विचिकादयोऽ. 20 प्याशुकारा उच्यन्ते, तैः 'अपक्रमणं' मरणं कस्यापि भवेत् । 'ग्लानत्वेन वा' मान्द्यन कोऽपि नियेत । 'आनुपूर्व्या वा' शरीरपरिकर्मणाक्रमेण भक्ते प्रत्याख्याते सति कश्चित् कालधर्म गच्छेत् । एवं दिवस-रजन्योरेकतरस्मिन् काले जीवितादपक्रमणं भवेत् ॥ ५५१४ ॥ __ एव य कालगयम्मि, मुणिणा सुत्त-ऽत्थगहितसारेणं । न विसातो गंतव्यो, कातव्य विधीय वोसिरणं ॥ ५५१५॥ 28 एवम्' एतेन प्रकारेण कालगते सति साधौ सूत्रा-ऽर्थगृहीतसारेण मुनिना न विषादो गन्तव्यः, किन्तु कर्तव्यं तस्य कालगतस्य विधिना व्युत्सर्जनम् ।।५५१५॥ कथम् ? इत्याह __ आयरिओ गीतो वा, जो व कडाई तहिं भवे साहू।। कायव्यो अखिलविही, न तु सोग भया व सीतेजा ॥ ५५१६ ॥ यस्तत्राचार्योऽपरो वा गीतार्थों यो वा अगीतार्थोऽपि 'कृतादिः' ईदृशे कार्ये कृतकरणः 30 आदिशब्दाद् धैर्यादिगुणोपेतः साधुर्भवति तेनाखिलोऽपि विधिः कर्तव्यः, न पुनः शोकाद् भयाद्वा तत्र 'सीदेत्' यथोक्तविधिविधाने प्रमादं कुर्यात् ।। ५५१६ ॥ १°हणे, गुरुगा दिव' ताभा० ॥ २ °हणे उपलक्षणत्वाद् अधारणे च चतु° कां० ॥ ३°ण संलेखनापुरस्सरं भक्ते का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy