________________
१४६१
10
माष्यगाथाः ५५०३-११] चतुर्थ उद्देशः ।
खेत्तुदय-हरिय-पाणा, णिविट्ठमादी व वाघाए ॥ ५५०७॥ प्रथमायामपि दिशि त्रीणि स्थण्डिलानि प्रत्युपेक्षणीयानि-ग्रामादेरासन्ने मध्ये दूरे च । किमर्थ पुनस्त्रीणि प्रत्युपेक्ष्यन्ते ? इत्याह-व्याघातार्थम् , व्याघातः कदाचिद् भवेदित्यर्थः । स चायम्-क्षेत्रं तत्र प्रदेशे कृष्टम् , उदकेन वा भावितम् , हरितकायो वा जातः, त्रसप्राणिभिर्वा संसक्तं समजनि, ग्रामो वा निविष्टः, आदिग्रहणेन सार्थो वा आवासितः । एव-5 मादिको व्याघातो यदि आसन्नस्थण्डिले भवति तदा मध्ये परिष्ठापयन्ति, तत्रापि व्याघाते दूरे परिष्ठापयन्ति । अथ प्रथमायां दिशि विद्यमानायां द्वितीयायां तृतीयायां वा प्रत्युपेक्षन्ते ततश्चतुर्गुरुकाः ॥ ५५०७ ॥ एते च दोषाः
एसणपेल्लण जोगाण व हाणी भिण्ण मासकप्पो वा। - भत्तोवधीअभावे, इति दोसा तेण पढमम्मि ॥ ५५०८ ॥ भक्त-पानालाभाद् उपधेरलाभाच्च एषणाप्रेरणं कुर्युः । अथैषणां न प्रेरयेयुः ततः 'योगानाम्' आवश्यकव्यापाराणां हानिः । अपरं वा क्षेत्रं गच्छतां मासकल्पो भिन्नो भवेत् । एवमादयो दोषा भक्तोपध्योरभावे भवन्ति ततः प्रथमे दिग्भागे महास्थण्डिलं प्रत्युपेक्षणीयम् ।। ५५०८॥
एमेव सेसियासु वि, तुमंतुमा कलह भेद मरणं वा।।
जं पावंति सुविहिया, गणाहिवो पाविहिति तं तु ॥ ५५०९॥ 15 यथा द्वितीयायां तृतीयायां च दोषा उक्ता एवमेव 'शेषाखपि' चतुर्थ्यादिषु यत् तुमन्तुमाकरणं कलहं गणभेदं मरणं वा सुविहिताः प्राप्नुवन्ति तद् गणाधिपः सर्वमपि प्राप्स्यति । अथ प्रथमायां व्याघातस्ततो द्वितीयायामपि प्रत्युपेक्षणीयम् । तस्यां च स एव भक्त-पानलाभलक्षणो गुणो भवति यः प्रथमायामुक्तः । अथ द्वितीयस्यां विद्यमानायां तृतीयायां प्रत्युपेक्षन्ते ततः स एव प्रागुक्तो दोषः, एवमष्टमी दिशं यावद् नेतव्यम् । अथ द्वितीयस्यां व्याघातस्तत-20 स्तृतीयस्यां प्रत्युपेक्षणीयम्, तस्यां च स एव गुणो भवति । एवमुत्तरोत्तरदिक्ष्वपि भावनीयम् ॥ ५९०९॥ गतं दिग्द्वारम् । अथ पन्तकद्वारमाह
वित्थारा-ऽऽयामेणं, जं वत्थं लब्भती समतिरेगे।
चोक्ख सुतिगं च सेतं, उवकमट्ठा धरेतव्वं ॥ ५५१०॥ विस्तारेणायामेन च यद् वस्त्रप्रमाणमर्द्धतृतीयहस्तादिकं तृतीयोद्देशके भणितं ततो यद् वस्त्रं समतिरेकं लभ्यते । कथम्भूतम् ? “चोक्खं" धवलितं 'शुचिकं नाम' सुगन्धि 'श्वेत' पाण्डुरम् । एवंविधं जीवितोपक्रमार्थ गच्छे धारयितव्यम् ॥ ५५१०॥ गणनाप्रमाणेन तु तानि त्रीणि भवन्ति, तद्यथा
अत्थुरणट्ठा एगं, बिइयं छोढुमुवरि घणं बंधे।
उकोसयरं उवरिं, बंधादीछादणट्ठाए ॥ ५५११॥ एकं तस्य मृतकस्याध आस्तरणार्थ द्वितीयं पुनः प्रक्षिप्योपरि घनं बनीयात् । किमुक्तं भवति ?-द्वितीयेन तद् मृतकं प्रावृत्योपरि दवरकेण घनं बध्यते । तृतीयम् 'उत्कृष्टतरम्' १ वस्त्रस्य प्रमाणं यथाक्रममर्धतृतीयहस्तचतुष्टयलक्षणं तृतीयोहे कॉ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org