________________
10
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विष्वग्म०प्रकृते सूत्रम् २९ गन्तव्यम् । यस्यां दिशि ग्रामस्ततः शीर्ष कर्तव्यम् । तृणानि समानि प्रस्तरणीयानि । 'उपकरणं' रजोहरणादिकं । तस्य पार्श्वे धारणीयम् । अविधिपरिष्ठापनायाः कायोत्सर्गः स्थण्डिले स्थितैर्न कर्तव्यः । निवर्तमानैः प्रादक्षिण्यं न विधेयम् । शबस्य चाभ्युत्थाने वसत्यादिकं परित्यजनीयम् । यस्य च संयतस्य 'व्याहरणं' नामग्रणं स करोति तस्य लोचः कर्तव्यः ॥ ५५०१ ॥ । गुरुसकाशमागतैः कायोत्सर्गों विधेयः । खाध्यायकस्य क्षपणस्य च मार्गणा कर्तव्या । उच्चारादिमात्रकाणां व्युत्सर्जनं कर्तव्यम् । अपरेऽति तस्यावलोकनं शुभा-ऽशुभगतिज्ञानार्थ निमित्तग्रहणार्थं च विधेयमिति द्वारगाथात्रयसमासार्थः ॥ ५५०२ ॥ अथैतदेव विवरीषुराह
जं दव्वं घणमसिणं, वावारजढं च चिट्ठए बलियं ।
वेणुमय दारुगं वा, तं वहणट्ठा पलोयंति ॥ ५५०३ ॥ ___ यद् द्रव्यं वेणुमयं दारुकं वा घनमसृणं 'व्यापारमुक्तम्' अवहमानकं 'बलीयः' दृढतरं सागारिकस्य गृहे तिष्ठति तत् कालगतस्य वहनार्थ प्रथममेव प्रलोकयन्ति, महास्थण्डिलं च प्रत्युपेक्षणीयम् ॥ ५५०३ ॥ अथ न प्रत्युपेक्षन्ते तत इमे दोषाः
अत्थंडिलम्मि काया, पवयणघाओ य होइ आसण्णे ।
छड्डावण गहणाई, परुग्गहे तेण पेहिजा ॥ ५५०४ ॥ अस्थण्डिले परिष्ठापयन् षट् कायान् विराधयति । प्रवचनघातश्च प्रामादेरासन्ने परिष्ठाप. यतो भवति । परावग्रहे च परिष्ठापयतः छर्दापनं भवेत् । छर्दापनं नाम-ते बलादपि साधुपादिन्यत्र तं शबं परित्याजयेयुः । ग्रहणा-ऽऽकर्षणादयो दोषा भवेयुः । ततो महास्थण्डिल. मवश्यं प्रागेव प्रत्युपेक्षेत ॥ ५५०४ ॥ गतं प्रत्युपेक्षणाद्वारम् । अथ दिग्द्वारमाह
दिस अवरदक्षिणा दक्खिणा य अवरा य दक्खिणापुव्वा ।
अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तरा चेव ॥ ५५०५ ॥ प्रथमम् 'अपरदक्षिणा' निर्ऋती दिग् निरीक्षणीया, तदभावे दक्षिणा, तस्या अभावेऽपरा, तदप्राप्तौ 'दक्षिणपूर्वा' आमेयी, तदलाभे 'अपरोत्तरा' वायवी, तस्या अभावे पूर्वा, तदभावे
उत्तरा, तदभावे उत्तरपूर्वी ॥ ५५०५ ॥ 28 सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषानाह
समाही य भत्त-पाणे, उपकरणे तुमंतुमा य कलहो य ।
भेदो गेलनं वा, चरिमा पुण कड्डए अण्णं ॥ ५५०६॥ प्रथमायां दिशि शबस्य परिष्ठापने प्रचुरान-पान-वस्त्रलाभतः समाधिर्भवति । तस्यां सत्यां यदि दक्षिणस्यां परिष्ठापयन्ति तदा भक्त-पानं न लभन्ते, अपरस्यामुपकरणं न प्रामुवन्ति, 50 दक्षिणपूर्वस्यां तुमन्तुमा परस्परं साधूनां भवति, अपरोत्तरस्यां कलहः संयत-गृहस्था-ऽन्यतीथिकैः समं भवति, पूर्वस्यां गणभेदश्चारित्रभेदो वा भवेत् , उत्तरस्यां ग्लानत्वम्, 'चरमा' पूर्वोत्तरा सा कृतमृतकपरिष्ठापना अन्यं साधुमाकर्षति, मारयतीत्यर्थः ॥ ५५०६॥
आसन्न मज्झ दूरे, वाघातद्वा तु थंडिले तिनि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org