________________
भाष्यगाथाः ५४९५-५५०२] चतुर्थ उद्देशः ।
१४५९ अण्णुदेसो वुत्तो, इमं तु सुत्तं भवचाए ॥ ५४९८ ॥ ___ अथवा संयमजीविताद् भवग्रहणजीविताद्वा विगतेऽन्यस्याचार्यस्य उद्देशः पूर्वसूत्रे उक्तः। इदं तु सूत्रं भवजीवितपरित्यागविषयमारभ्यते ॥ ५४९८ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुः चशब्दाद् आचार्योपाध्यायौ वा रात्री वा विकाले वा "आहच्च" कदाचिद् 'विष्वग् भवेत्' जीव-शरीरयोः पृथग्भावमामुयात् , म्रियत: इत्यर्थः । तच्च शरीरकं 'कश्चिद्' वैयावृत्यकरो भिक्षुरिच्छेत् 'एकान्ते' विविक्ते 'बहुपाशुके' कीटिकादिसत्त्वरहिते प्रदेशे परिष्ठापयितुम् । अस्ति चात्र किञ्चित् सागारिकसत्कं 'अचितं' निर्जीवं 'परिहरणार्ह' परिभोगयोग्यमुपकरणजातम् , वहनकाष्ठमित्यर्थः । कल्पते "से". तस्य भिक्षोस्तत् काष्ठं 'सागारिककृतं' 'सागारिकस्यैव सत्कमिदं नास्माकम्' इत्येवं गृहीत्वा तत् शरीरमेकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितुम् । तच्च परिष्ठाप्य यतो गृहीतं तत् काष्ठं तत्रै-10 वोपनिक्षेप्तव्यं स्यादिति सूत्रार्थः ॥ सम्प्रति नियुक्तिविस्तरः
पुदि दव्योलोयण, नियमा गच्छे उवक्कमनिमित्तं ।
भत्तपरिण गिलाणे, पुव्वुग्गहों थंडिलस्सेव ॥ ५४९९ ॥ यत्र साधवो मासकल्पं वर्षावासं वा कर्तुकामास्तत्र पूर्वमेव तिष्ठन्तः द्रव्यस्य-वहनकाष्ठादेरवलोकनं नियमाद् गच्छवासिनः कुर्वन्ति । किमर्थम् ? इत्याह-उपक्रमः-मरणं तत्15 कस्यापि संयतस्य भवेदित्येवमर्थम् । तच्च मरणं कदाचिद् भक्तपरिज्ञावतो भवेत् , कदाचित् तु ग्लानस्य, उपलक्षणमिदम् , तेनाशुकारेण वा मरणं भवेत् , ततः पूर्वमेव महास्थण्डिलस्य वहनकाष्ठादेश्च 'अवग्रहः' प्रत्युपेक्षणं विधेयम् ॥ ५४९९ ॥ अथ द्वारगाथात्रयमाह
पडिलेहणा दिसा गंतए य काले दिया व राओ य । [आव.नि.१२७२] जग्गण-बंधण-छयण, एयं तु विहिं तहिं कुजा ॥ ५५००॥ 20 कुसपडिमाइ णियत्तण, मत्तग सीसे तणाइँ उवगरणे। काउस्सग्ग पदाहिण, अब्भुट्ठाणे य वाहरणे ॥ ५५०१॥ काउस्सग्गे सज्झाइए य खमणस्स मग्गणा होइ ।
वोसिरणे ओलोयण, सुभा-ऽसुभगइ-निमित्तट्ठा ।। ५५०२ ॥ वहनकाष्ठस्य स्थण्डिलस्य च प्रथमत एव प्रत्युपेक्षणं विधेयम् । “दिस" ति दिग्भागो 25 निरूपणीयः । “णंतए य" ति औपग्रहिकानन्तकं मृताच्छादनार्थ गच्छे सदैव धारणीयम् । जातिप्रधानश्चायं निर्देशः, ततो जघन्यतोऽपि त्रीणि वस्त्राणि धारणीयानि । “काले दिया व राओ अ" ति दिवा रात्रौ वा कालगते विषादो न विधेयः । रात्रौ च स्थाप्यमाने मृतके जागरणं बन्धनं छेदनं च कर्तव्यम् । एवं विधिं तत्र कुर्यात् ॥ ५५०० ।।
तथा नक्षत्रं विलोक्य कुशप्रतिमाया एकस्या द्वयोर्वा करणमकरणं वा । "नियत्तणि" ति 30 येन प्रथमतो गताः न तेनैव पथा निवर्तनीयम् । मात्रके पानकं गृहीत्वा पुरत एकेन साधुना
१त् विष्कम्भमामु कां० । “आहच्च' कयाई 'वीसुं' पृथग् 'भेजा' भवेयुः, पृथक् शरीराज्जीवो म्रियत इत्यर्थः" इति चूर्णो विशेषचूर्णौ च ॥ २ किम् ? इ° मो• डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org