SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४५४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ गणान्तप्रकृते सूत्रम् २६ सयमेव धरेइ गणं, अणुलोमेणं च सारेइ ॥ ५४८१॥ एवमर्द्धपञ्चमैर्वर्षेः पूर्वाचार्यों नोदनाभिः प्रतापितोऽपि यदि न तिष्ठति तत एतावता कालेन स श्रुतव्यक्तो वयसाऽपि व्यक्तो जात इति कृत्वा खयमेव गणं धारयति । यत्र च पूर्वाचार्य पश्यति तत्र अनुलोमवचनैस्तथैव सारयति ॥ ५४८१ ॥ __ अहव जइ अत्थि थेरा, सत्ता परियट्टिऊण तं गच्छं । दुहओवत्तसरिसगो, तस्स उ गमओ मुणेयव्यो ॥ ५४८२ ॥ अथवा यदि तस्य श्रुतव्यक्तस्य स्थविरास्तं गच्छं परिवर्तयितुं शक्ताः सन्ति ततः कुलगण-सद्धेषु नोपतिष्ठते किन्तु स स्वयं सूत्रार्थी शिष्याणां ददाति, स्थविरास्तु गच्छं परिवर्त. यन्ति । एवं च द्विधाव्यक्तसदृशस्तस्य गमो ज्ञातव्यो भवति ।। ५४८२ ॥ 10 गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह वत्तवओ उ अगीओ, जइ थेरा तत्थ केइ गीयत्था । तेसंतिगे पढ़तो, चोएइ स असइ अण्णत्थ ॥ ५४८३ ।। यो वयसा व्यक्तः परमगीतार्थः, तस्य च गच्छे यदि केऽपि स्थविरा गीतार्थाः सन्ति ततः 'तेषां' स्थविराणामन्तिके पठन् गच्छमपि परिवर्तयति, अवसन्नाचार्य चान्तराऽन्तरा नोद16 यति । तेषां गीतार्थस्थविराणामभावे गणं गृहीत्वाऽन्यत्रोपसम्पद्यते ॥ ५४८३ ॥ गतस्तृतीयो भङ्गः । अथ चतुर्थभङ्गमाह जो पुण उभयअवत्तो, पट्टावग असइ सो उ उद्दिसई । सव्वे वि उदिसंता, मोत्तूणं उद्दिसंति इमे ॥ ५४८४ ॥ यः पुनः उभयथा-श्रुतेन वयसा चाव्यक्तस्तस्य यदि स्थविराः पाठथितारो विद्यन्ते अपरे 20 च गच्छवर्तापकास्ततोऽसावपि नान्यमुद्दिशति । स्थविराणामभावे स नियमादन्यमाचार्यमुद्दिशति । 'सर्वेऽपि' भङ्गचतुष्टयवर्तिनोऽप्यन्यमाचार्यमुद्दिशन्तोऽमून मुक्त्तवा उद्दिशन्ति ॥५४८४ ।। तद्यथा संविग्गमगीयत्थं, असंविग्गं खलु तहेव गीयत्थं । असंविग्गमगीयत्थं, उदिसमाणस्स चउगुरुगा ॥ ५४८५ ॥ । संविममगीतार्थ असंविमं गीतार्थ असंविनमगीतार्थ चेति त्रीनप्याचार्यत्वेनोदिशतश्चतुर्गुरुकाः । एते च यथाक्रमं कालेन तपसा तदुभयेन च गुरुकाः कर्तव्याः ॥ ५४८५ ॥ अत्रैव प्रायश्चित्तवृद्धिमाह सत्तरत्तं तवो होइ, तओ छेओ पहावई । छेदेण छिण्णपरियाए, तओ मूलं तओ दुगं ॥ ५४८६ ॥ 30 एतानयोग्यानुद्दिश्यानावर्तमानस्य प्रथमं सप्तरात्रं दिने दिने चतुर्गुरु, द्वितीयं सप्तरात्रं षड्. लघु, तृतीयं षड्गुरु, चतुर्थं चतुर्गुरुकच्छेदः, पञ्चमं षड्लघुकः, षष्ठं षड्गुरुकः, तत एकदिवसे १ तत एवं द्विचत्वारिंशता दिवसैर्गतैस्त्रयश्चत्वारिंशदिवसे मूलम् , चतुश्चत्वारिंशेऽनवस्थाप्यम् , पञ्चचत्वारिंशे दिवसे पाराश्चिकम् । अथवा षड्लघुकतपो का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy