________________
भाष्यगाथाः ५४७१-८० ]
चतुर्थ उद्देशः ।
१४५३
साधुसङ्घाटकं प्रेषयति । अथासन्ने स आचार्यस्ततः स्वयमेव गत्वा नोदयति ॥ ५४७५ || नोदनायां चैवं कालपरिमाणम् -
एगाह पणग पक्खे, चउमासे वरिस जत्थ वा मिलह । चोए चोयवेइ व, च्छंतें सयं तु वढावे ॥ ५४७६ ॥
'एकाहं नाम' दिने दिने गत्वा नोदयति, एकान्तरितं वा । तथा 'पञ्चाहं' पञ्चानां दिव- 5 सानामन्ते, एवं पक्षे चतुर्मासे वर्षान्ते वा 'यत्र वा' समवसरणादौ मिलति तत्र स्वयमेव नोदयति, अपरैर्वा स्वगच्छीय-परगच्छीयैर्नोदनां कारयति । यदि सर्वथाऽपि नेच्छति ततः स्वयमेव तं गणं वर्तापयति ॥ ५४७६ ॥
उद्दिसह व अन्नदिसं, पयावणट्ठा न संगहट्ठाए ।
जह णाम गारवेण वि, मुएज णिच्छे सयं ठाई ॥ ५४७७ ॥ अथवा स उभयव्यक्तः 'अन्यां दिशम् ' अपरमाचार्यमुद्दिशति तच्च तस्यावसन्नाचार्यस्य 'प्रतापनार्थम्' उत्तेजनार्थं न पुनर्गणस्य सङ्ग्रहोपग्रह निमित्तम् । स च तत्र गत्वा भगतिअहमन्यमाचार्यमुद्दिशामि यदि यूयमितः स्थानाद् नोपरमध्ये । ततः स चिन्तयेत् — अहो ! अमी मयि जीवत्यपि अपरमाचार्यं प्रतिपद्यन्ते, मुञ्चामि पार्श्वस्थताम् । यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुञ्चेत् ततः सुन्दरम् अथ सर्वथा नेच्छत्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तिष्ठति 15 ॥ ५४७७ || गतः प्रथमो भङ्गः । अथ द्वितीयमाह -
सुअवत्तो वयऽवत्तो, भणइ गणं ते ण सारितुं सत्तो ।
सारेहि सगणमेयं, अण्णं व वयामों आयरियं ।। ५४७८ ॥
―――――――
यः श्रुतेन व्यक्तो वयसा पुनरव्यक्तः स स्वयं गच्छं वर्तापयितुमसमर्थः तमाचार्यं भणति - अहमप्राप्तवयस्त्वेन त्वदीयं गणं सारयितुं न शक्तः, अतः सारय स्वगणमेनम्, अहं पुनरन्यस्य 20 शिष्यो भविष्यामि, अथवा अहमेते वाऽन्यमाचार्य व्रजामः, उद्दिशाम इत्यर्थः ॥ ५४७८ ॥ आयरिय उवज्झायं, निच्छंते अप्पणा य असमत्थे । तिगवच्छरमर्द्ध, कुल गण संघे दिसाबंधो ॥ ५४७९ ॥
एवंभणित आचार्य उपाध्यायो वा यदि नेच्छति संयमे स्थातुम् स चात्मना गणं वर्ता - पयितुमसमर्थः, ततः कुलसत्कमाचार्यमुपाध्यायं वा उद्दिशति । तत्र त्रीणि वर्षाणि तिष्ठति, तं 25 चाचार्य सारयति । ततः 'त्रयाणां वर्षाणां परतः सचिचादिकं कुलाचार्यो हरति' इति कृत्वा गणाचार्यमुद्दिशति । तत्र संवत्सरं स्थित्वा सङ्घाचार्यस्य दिग्बन्धं प्रतिपद्य 'वर्षार्द्ध' षण्मासान् तत्र तिष्ठति ॥ ५४७९ ॥ कुलाद् गणं गणाच्च सङ्घ सङ्क्रामन्नाचार्यमिदं भणति - सच्चित्तादि हरंती, कुलं पि नेच्छामों जं कुलं तुब्भं ।
वच्चामो अन्नगणं, संघं व तुमं जइ न ठासि ॥ ५४८० ॥
यत् त्वदीयं कुलं तदीया आचार्या अस्माकं वर्षत्रयादूर्द्ध सचिचादिकं हरन्ति अतः कुलमप नेच्छामः, यदि त्वमिदानीमपि न तिष्ठसि ततो वयं गणं सङ्घ वा व्रजामः ॥ ५४८० ॥ एवं पि अठायंते, ताहे तू अद्धपंचमे वरिसे ।
For Private & Personal Use Only
Jain Education International
10
30
www.jainelibrary.org