SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४५२ सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [गणान्तप्रकृते सूत्रम् २५-२६ चार्योपाध्यायम् 'उद्देशयितुम्' आत्मनो गुरुतया व्यवस्थापयितुम् । स कारणं दीपयित्वा तु कल्पते । » एष सूत्रार्थः ॥ अथ भाष्यम् . सुत्तम्मि कड्डियम्मी, आयरि-उज्झाय उद्दिसाविति । तिण्हऽ उद्दिसिजा, णाणे तह दंसण चरित्ते ॥ ५४७१ ॥ 5 'सूत्रे सूत्रार्थे 'आकृष्टे' उक्ते सति नियुक्तिविस्तर उच्यते-आचार्योपाध्यायमभिनवमुद्देशयन् त्रयाणामायोद्दिशेत् । तद्यथा-ज्ञानार्थ दर्शनार्थ चारित्रार्थ चेति ॥ ५४७१ ॥ नाणे महकप्पसुतं, सिस्सत्ता केइ उवगए देयं । तस्सऽ? उद्दिसिज्जा, सा खलु सेच्छा ण जिणआणा ॥ ५४७२ ॥ ज्ञाने तावदभिधीयते-केषाञ्चिदाचार्याणां कुले गणे वा महाकल्पश्रुतमस्ति, तैश्च गण10 संस्थितिः कृता-योऽस्माकं शिष्यतयोपगच्छति तस्यैव महाकल्पश्रुतं देयं नान्यस्य । तत्र चोत्सर्गतो नोपसम्पत्तव्यम् , यदि अन्यत्र नास्ति तदा 'तस्य' महाकल्पश्रुतस्यार्थाय तमप्याचार्यमुदिशेत्, उद्दिश्य चाधीते तस्मिन् पूर्वाचार्याणामेवान्तिके गच्छेत् , न तत्र तिष्ठेत् । कुतः ? इत्याह-सा खलु तेषामाचार्याणां खेच्छा, 'न जिनाज्ञा' न हि जिनैरिदं भणितम्-शिष्य तयोपगतस्य श्रुतं दातव्यमिति ॥ ५४७२ ॥ अथ दर्शनार्थमाह15 विजा-मंत-निमित्ते, हेऊसत्थट्ट देसणहाए । चरित्तट्ठा पुव्वगमो, अहव इमे हुंति आएसा ॥ ५४७३ ॥ विद्या-मन्त्र-निमित्तार्थ हेतुशास्त्राणां च' गोविन्दनियुक्तिप्रभृतीनामर्थाय यद् अन्य आचार्य उद्दिश्यते तद् दर्शनार्थ मन्तव्यं । चारित्रार्थ पुनरुद्देशने 'पूर्वः' प्रागुक्त एव गमो भवति । ___ अथवा तत्रैते 'आदेशाः' प्रकारा भवन्ति ॥ ५४७३ ॥ आयरिय-उवज्झाए, ओसण्णोहाविते व कालगते । [आव.नि.११९५] ओसण्ण छविहे खलु, वत्तमवत्तस्स मग्गणया ॥ ५४७४ ॥ __ आचार्य उपाध्यायो वा अवसन्नः सञ्जातः 'अवधावितो वा' गृहस्थीभूतः कालगतो वा । यदि अवसन्नस्ततः षडू विधो भवेत्-पार्श्वस्थोऽवमनः कुशीलः संसक्तो नित्यवासी यथाच्छन्दश्चेति । यश्च तस्य शिष्य आचार्यपदयोग्यः स व्यक्तोऽव्यक्तो वा भवेत् तत्रेयं मार्गणा ।। ५४७४ ॥ वत्ते खलु गीयत्थे, अव्वत्तें वएण अहव अगीयत्थे । वत्तिच्छ सार पेसण, अहवाऽऽसण्णे सयं गमणं ॥ ५४७५॥ अत्र चस्वारो भङ्गाः-तत्र वयसा व्यक्तः षोडशवार्षिकः श्रुतेन च व्यक्तो गीतार्थः, एष प्रथमो भङ्गः । वयसा व्यक्तः श्रुतेनाव्यक्तः, एषोऽर्थतो द्वितीयः। वयसाऽव्यक्तः श्रुतेन व्यक्तः, अयमर्थतस्तृतीयः । “अन्वते वएण अहव अगीयस्थि" ति चतुर्थो भङ्गो गृहीतः, स चायम्30 वयसाऽप्यव्यक्तः श्रुतेन चाव्यक्त इति । अत्र प्रथमे भने द्विधाऽपि व्यक्तस्य 'इच्छा' अन्यमाचार्यमुद्दिशति वा न वा । यावन्नोदिशति तावत् तमवसन्नीभूतमाचार्य दूरस्थं सारयितुं ११- एतचिहान्तर्गतः पाठः भा० एव वर्त्तते ॥ २ तत्र ज्ञानार्थ तावदाह इत्यवतरणं का० ॥ ३ वयसा श्रुतेन चाध्यक्तो [व्यक्तो वा] भवतीति अत्र चत्वा कां ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy