________________
१४५५
भाष्यगाथाः ५४८१-९०] चतुर्थ उद्देशः । मूलम् , द्वितीयेऽनवस्थाप्यम् , तृतीये पाराश्चिकम् । अथवा षड्गुरुकतपोऽनन्तरं प्रथमत एव सप्तरात्रं षड्गुरुकच्छेदः, ततः मूला-ऽनवस्थाप्य-पाराञ्चिकानि प्राग्वत् । यद्वा तपोऽनन्तरं पञ्चकादिच्छेदः सप्त सप्त दिनानि भवति, शेषं पूर्ववत् । एवं प्रायश्चित्तं विज्ञाय संविमो गीतार्थ उद्देष्टव्यः ।। ५४८६ ॥ तत्रापि विशेषमाह
छट्ठाणविरहियं वा, संविग्गं वा वि चयइ गीयत्थं ।
चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा ॥ ५४८७ ॥ षभिः स्थानैर्वक्ष्यमाणैर्विरहितमपि संविमं गीतार्थ यदि "सदोषं' काथिकादिदोषसहितं 'वदति' आचार्यत्वेन उदिशति तदा चत्वारोऽनुद्धाताः । तत्राप्याज्ञादयो दोषाः ॥ ५४८७ ।। इदमेव व्याचष्टेछट्ठाणा जा नियगो, तविरहिय काहियाइता चउरो।
10 ते वि य उदिसमाणे, छट्ठाणगयाण जे दोसा ॥ ५४८८॥ 'पटूस्थानानि नाम' पार्श्वस्थोऽवसन्नः कुशीलः संसक्तो यथाच्छन्दो नित्यवासी चेति, एतैः पनिर्विरहिता ये 'काथिकादयः' काथिक-प्राश्निक-मामाक-सम्प्रसारकाख्या चत्वारस्तानप्युद्दिशतस्त एव दोषा ये षट्स्थानेषु-पार्श्वस्थादिषु गताना-प्रविष्टानां भवन्ति ।। ५४८८ ।। एष सर्वोऽप्यवसन्ने आचार्य विधिरुक्तः । अथावधावित-कालगतयोविधिमाह- 18
ओहाविय कालगते, जाधिच्छा ताहि उद्दिसावेइ ।
अव्वत्ते तिविहे वी, णियमा पुण संगहटाए ॥ ५४८९ ॥ अवधाविते कालगते वा गुरौ 'त्रिविधेऽपि' प्रथमभङ्गवर्जे भङ्गत्रयेऽपि योऽव्यक्तः स यदा इच्छा भवति तदाऽन्यमाचार्यमुद्देशयति । अथवा 'त्रिविधेऽपि' कुलसत्के गणसत्के सङ्घसत्के च आचार्योपाध्याये आत्मन उद्देशं कारयति । स चाव्यक्तत्वाद् नियमात् सङ्ग्रहोपग्रहार्थमेवो- 20 दिशति ॥ ५४८९ ॥ आचार्य गृहीभूतमवसन्नं वा यदा पश्यति तदेत्थं भणति
ओहाविय ओसन्ने, भणइ अणाहा वयं विणा तुज्झे ।
कम सीसमसागरिए, दुप्पडियरगं जतो तिण्हें ॥ ५४९० ॥ अवधावितस्यावसन्नस्य वा गुरोः 'क्रमयोः' पादयोः शीर्षमसागारिके प्रदेशे कृत्वा भणति-भगवन् ! अनाथा वयं युष्मान् विना, अतः प्रसीद, भूयः संयमे स्थित्वा सना-25 थीकुरु डिम्भकल्पानस्मान् । शिष्यः पृच्छति-तस्य गृहीभूतस्य अचारित्रिणो वा चरणयोः कथं शिरो विधीयते ! गुरुराह-'दुष्प्रतिकरं' दुःखेन प्रतिकर्तुं शक्यं यतस्त्रयाणाम् , तद्यथा-माता-पित्रोः स्वामिनो धर्माचार्यस्य च । यदुक्तम्-"तिण्हं दुप्पडियारं समणाउसो!-अम्मा-पियस्स भट्टिस्स धम्मायरियस्स य" (स्थानाङ्गे स्था० ३ उ० १) इत्यादि । तत एवमवसन्नेऽवधाविते वा गुरौ विनयो विधीयते ॥ ५४९० ॥ किञ्च
जो जेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा । १ ततः सप्तरात्रचतुष्टयानन्तरं मूला' कां० ॥ २ पञ्चक-दशक-पञ्चदशकादिच्छेदाः सप्त सप्त दिनानि भवन्ति, शे° कां० ॥ ३ षष्टी-सप्तम्योरर्थ प्रत्यभेदाद् अव कां०॥
0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org