SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५४६०-६९ ] चतुर्थ उद्देशः । १४४९ सिंहगुहां व्याघ्रगुहां 'उदधिं वा' समुद्रं प्रदीप्तं वा नगरादिकं यः प्रविशति, अशिवमवमौदर्यं वा यत्र देशे तत्र यः प्रविशति तेन ध्रुवमात्मा परित्यक्तः ॥ ५४६४ ॥ चरण-करण पहीणे, पासत्थे जो उ पविसए समणो । जतमाणए पजहिउं, सो ठाणे परिचयइ तिणि ॥ ५४६५ ॥ एवं सिंहगुहादिस्थानीयेषु चरण-करणप्रहीणेषु पार्श्वस्थेषु यः श्रमणः 'यतमानान्' संविग्नान् 5 'हाय' परित्यज्य प्रविशति स मन्दधर्मा ' त्रीणि स्थानानि' ज्ञान- दर्शन - चारित्ररूपाणि परित्यजति । अपि च - सिंहगुहादिप्रवेशे एकभविकं मरणं प्राप्नोति, पार्श्वस्थेषु पुनः प्रविशन्ननेSarf मरणानि प्राप्नोति ॥ ५४६५ ॥ एमेव अहाछंदे, कुसील - ओसन्न -नीय-संसते । जं तिनि परिच्चयई, नाणं तह दंसण चरितं ॥ ५४६६ ॥ 'एवमेव' पार्श्वस्थवद् यथाच्छन्देषु कुशीला - ऽवसन्न-नित्यवासि - संसक्तेषु च प्रविशेतो मन्तव्यम् । यच्च त्रीणि स्थानानि परित्यजतीत्युक्तं तद् ज्ञानं दर्शनं चारित्रं चेति द्रष्टव्यम् ॥ ५४६६ ॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह पंचहं एगयरे, संविग्गे संकर्म करेमाणे । आलोइए विवेगो, दोसु असं विग्र्गे सच्छंदो ।। ५४६७ ॥ पार्श्वस्था ऽवसन्न- कुशील- संसक्त-यथाच्छन्दानामेकतरः संविभेषु सङ्गमं कुर्वन् प्रथममालोचनां ददाति, तत आलोचितेऽविशुद्धोपधेर्विवेकं करोति । स च यदि चारित्रार्थमुपसम्पद्यते ततः प्रतीच्छनीयः । यस्तु 'द्वयोः ' ज्ञान-दर्शनयोरर्थाय संविग्न उपसम्पद्यते तस्य 'स्वच्छन्दः ' स्वाभिप्रायः, नासौ प्रतीच्छनीय इति भावः । अथवा " दोसु असंविग्गे" त्ति ' असं विमोऽसंविमेषु सङ्क्रामति' इति रूपे द्विधाऽप्यसंविमे चतुर्थभङ्गे 'खच्छन्दः' खेच्छा, अवस्तुभूतत्वाद् 20 न कोऽपि तत्र विधिरिति भावः || ५४६७ ॥ Jain Education International पंचेगतरे गए, आरुभियवते जयंत तम्मि । जं उबहिं उप्पाए, संभोइत सेसमुज्झति ।। ५४६८ ॥ तेषां पञ्चानां - पार्श्वस्थादीनामेकतर आगच्छन् यदि गीतार्थस्ततः स्वयमेव महाव्रतान्युच्चार्यारोपितत्रतो यतमानः- त्रजिकादावप्रतिबध्यमानो मार्गे यमुपधिमुत्पादयति स साम्भोगिकः, 25 “सेसमुज्झंति” त्ति यः प्राक्तनः पार्श्वस्थोपधिरशुद्धस्तं परिष्ठापयन्ति । यः पुनरगीतार्थस्तस्य व्रतानि गुरवः प्रयच्छन्ति, उपधिश्च तस्य चिरन्तनोऽभिनवोत्पादितो वा सर्वोऽपि परित्यज्यते ॥ ५४६८ ॥ तेषु चायमालोचनाविधिः पासत्थाईमुंडिऍ, आलोयण होइ दिक्खपभिरं तु । संविग्गपुराणे पुण, जप्पभिई चैत्र ओसण्णो ।। ५४६९ ॥ १ एवं पार्श्वस्थेषु सङ्क्रामतो भणितम् । अथ यथाच्छन्दादिषु सङ्क्रामत इदमेवातिदिशन्नाह इत्यवतरणं कां० ॥ २ 'शतो दोषजालं च विशेषतरं मन्त' कां० ॥ ३ तृतीयभङ्ग एव विधिशेषमाह इत्यवतरणं कां० ॥ 10 15 For Private & Personal Use Only 30 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy