SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 10 भाष्यगाथाः ५४५३-५९) चतुर्थ उद्देशः । १४४७ सङ्खडी वा आलोकन्ते । स्थापनाकुलानि न स्थापयन्ति । 'भक्तार्थ मण्डल्यां समुद्देशनं न कुर्वन्ति । गृहस्थभाषाभिर्भाषन्ते, सावद्यं वा भाषन्ते । पटलकेषु आनीतं भुञ्जते । शय्यातरपिण्डं भुञ्जते । आदिग्रहणेन उद्माद्यशुद्धं गृहन्ति ॥ ५४५४ ॥ एतेषु गच्छस्य सीदतो विधिमाह चोयावेइ य गुरुणा, विसीयमाणं गणं सयं वा वि । आयरियं सीयंतं, सयं गणेणं च चोयावे ॥ ५४५५ ॥ प्रथमभङ्गे सामाचार्या विषीदन्तं गच्छं गुरुणा नोदयति, अथवा खयमेव नोदयति । द्वितीयभङ्गे आचार्य सीदन्तं खयं वा गणेन वा नोदयति ॥ ५४५५ ॥ दुन्नि वि विसीयमाणे, सयं व जे वा तहिं न सीयंति । ठाणं ठाणाऽऽसञ्ज उ, अणुलोमाईहिँ चोएति ॥ ५४५६ ॥ तृतीयभङ्गे गच्छा-ऽऽचार्यो द्वावपि सीदन्तौ खयमेव नोदयति, ये वा तत्र न सीदन्ति तैनॊदयति, किंबहुना ? स्थानं स्थानम् 'आसाद्य' प्राप्यानुलोमादिभिर्वचोभिर्नोदयति । किमुक्त भवति ?-आचार्योपाध्यायादिकं भिक्षु-क्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य यादृशी नोदना योग्या यो वा खरसाध्यो मृदुसाध्यः क्रूरोऽक्रूरो वा यथा नोदनां गृह्णाति तं तथा नोदयेत् ॥५४५६॥' भणमाणे भणाविते, अयाणमाणम्मि पक्खों उक्कोसो। 15 लजाएँ पंच तिनि व, तुह किं ति व परिणय विवेगो॥५४५७ ॥ गच्छमाचार्यमुभयं वा सीदन्तं वयं भणन् अन्यैश्च भाणयन्नास्ते । यत्र न जानाति एते भण्यमाना अपि नोद्यमं करिष्यन्ति तत्रोत्कर्षतः पक्षमेकं तिष्ठति । गुरुं पुनः सीदन्तं लज्जया गौरवेण वा जानन्नपि पञ्च त्रीन् वा दिवसानभणन्नपि शुद्धः । अथ नोद्यमानो गच्छो गुरुरुभयं वा भणेत्-तव किं दुःखयति ? यदि वयं सीदामस्तर्हि वयमेव दुर्गतिं गमिष्यामः ।। एवंविधे भावे तेषां परिणते तेषां 'विवेकः' परित्यागो विधेयः । ततश्चान्यं गणं सङ्कामति । तत्र चतुर्भङ्गी-संविग्नः संविमं गणं सङ्कामति १ संविग्मोऽसंविमम् २ असंविमः संविनम् ३ असंविमोऽसंविमम् ४ ॥ ५४५७ ।। तत्र प्रथमो भङ्गस्तावदुच्यते संविग्गविहाराओ, संविग्गा दुन्नि एज अन्नयरे । आलोइयम्मि सुद्धो, तिविहोवहिमग्गणा नवरि ॥ ५४५८॥ १ संविमविहाराद् गच्छात् संविमौ द्वौ 'अन्यतरौ' गीतार्था-ऽगीतार्थो संविमे गच्छे समागच्छेताम् , स च गीतार्थोऽगीतार्थों वा यतो दिवसात् संविनेस्यः स्फिटितः तदिनादारभ्य सर्वमप्यालोचयति, आलोचिते च शुद्धः । नवरम्-त्रिविधोपधेः-यथाकृतादिरूपस्य मार्गणा कर्तव्या ॥ ५४५८ ॥ इदमेव व्याचष्टे गीयमगीतो गीते, अप्पडिबद्धे न होइ उवघातो। अविगीयस्स वि एवं, जेण सुता ओहनिजुत्ती ॥ ५४५९ ॥ स संविग्नो गीतार्थो वा स्यादगीतार्थों वा । यदि गीतार्थो वजिकादिषु अप्रतिबद्ध आयातः १ अथ त्रिप्वपि भङ्गेषु साधारणं विधिमाह इत्यवतरणं का० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy