________________
5
१४४६
सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ गणान्त ० प्रकृते सूत्रम् २३
स आपुच्छित्ता आयरियं वा जाव विहरित्तए । ते य से वियरंति एवं से कप्पड़ जाव विहरित्तए; ते य से नो वियरेजा एवं से नो कप्पड़ जाव विहरि - तए । जत्थुत्तरियं धम्मविणयं लभेजा एवं से कप्पइ अन्नं गणं संभोगपडियाए उवसंपजित्ताणं विहरि - तए; जत्थुत्तरियं धम्मविणयं नो लभेजा एवं से नो कप्पइ अन्नं गणं जाव विहरित्तए २३ ॥
अस्य व्याख्या प्राग्वत् । नवरम् — सम्भोग : - एकमण्डल्यां समुद्देशना दिरूपः तत्प्रत्ययं - तन्निमित्तम् । “ जत्थुत्तरियं" इत्यादि, 'यत्र' गच्छे उत्तरं - प्रधानतरं 'धर्मविनयं' स्मारणा10 वारणादिरूपां धार्मिकीं शिक्षां लभेत एवं "से" तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् | यत्रोत्तरं धर्मविनयं नो लभेत एवं "से" तस्य नो कल्पते उपसम्पद्य विहर्तुमिति सूत्रार्थः ॥ अथ भाष्यम्
15
संभोग वहुत कारणेहिं नाणट्ठ दंसण चरिते । संकमणे चभंगो, पढमो गच्छम्मि सीयंते ॥ ५४५३ ॥ सम्भोगोऽपि त्रिभिः कारणैरिष्यते । तद्यथा - - ज्ञानार्थं दर्शनार्थं चारित्रार्थं च । तत्र ज्ञानार्थं दर्शनार्थं वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गणान्तरसङ्क्रमणे स एव विधिर्यः पूर्वसूत्रे भणितः । चारित्रार्थं तु यस्योपसम्पन्नस्तत्र चरण - करणक्रियायां सीदति चतुर्भङ्गी भवति - - गच्छः सीदति नाचार्यः १ आचार्यः सीदति न गच्छः २ गच्छोडप्याचार्योऽपि सीदति ३ न गच्छो नाप्याचार्य ४ ईति । अत्र प्रथमो भङ्गो गच्छे सीदति मन्तव्यः । 20 तत्र च गुरुणा स्वयं वा गच्छस्य नोदना कर्तव्या ॥ ५४५३ ।।
---
कथं पुनः स गच्छः सीदेत् ? इत्याह
Jain Education International
पडिलेह दियतुअट्टण, निक्खिव आदाण विणय सज्झाए । आलोग-ठवण भट्ट -भास- पडल- सेजातराईसु ॥ ५४५४ ॥
ते गच्छसाधवः प्रत्युपेक्षणां काले न कुर्वन्ति, न्यूना - ऽतिरिक्ता दिदोषैर्विपर्यासेन वा प्रत्यु25 पेक्षन्ते, गुरु- ग्लानादीनां वा न प्रत्युपेक्षन्ते । निष्कारणे दिवा त्वग्वर्तयन्ति । दण्डकादिकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते, न वा प्रमार्जयन्ति, दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा कुर्वन्ति । यथार्हं विनयं न प्रयुञ्जते । खाध्याये - सूत्रपौरुषीमर्थपौरुषीं वा न कुर्वन्ति, अकालेऽस्वाध्याये वा कुर्वन्ति । पाक्षिकादिषु आलोचनां न प्रयच्छन्ति, अथवा " आलोय " त्ति "ठाण दिसिपगासणया" ( ओघनि० गा० ५६३ ) इत्यादिकं सप्तविधमालोकं न प्रयुञ्जते,
१ इति । चतुर्थो भङ्गः शुद्ध एव । आद्येषु त्रिषु भङ्गेषु विधिरुच्यते - तत्र प्रथमो कां० ॥
For Private & Personal Use Only
www.jainelibrary.org