________________
१४४५
भाष्यगाथाः ५४५०-५२ ] चतुर्थ उद्देशः ।
विहरित्तए । ते य से वितरंति एवं से कप्पति अन्नं गणं उवसंपन्जित्ताणं विहरित्तए; ते य से णो वियरंति एवं से णो कप्पति अन्नं गणं उवसंप
जित्ताणं विहरित्तए २२॥ अस्य सूत्रद्वयस्य व्याख्या प्राग्वत् । नवरम् -गणावच्छेदिकत्वमाचार्योपाध्यायत्वं च निक्षिप्य । गन्तव्यमिति विशेषः ॥ अथ भाष्यम्
एमेव गणावच्छे, गणि-आयरिए वि होइ एमेव ।
नवरं पुण नाणत्तं, ते नियमा हुंति वत्ता उ ॥ ५४५०॥ 'एवमेव' भिक्षुवद् गणावच्छेदिकस्य ज्ञान-दर्शन-चारित्रार्थमन्यं गणं गच्छतो विधिद्रष्टव्यः । गणिनः-उपाध्यायस्याचार्यस्य चैवमेव विधिः । नवरं पुनरिदं नानात्वम्-नियमात् 'ते' 10 गणावच्छेदिकादयो व्यक्ता एव भवन्ति नाव्यक्ताः ॥ ५१५० ॥
एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो ।
नाणट्ट जो उ नेई, सच्चित्त ण अप्पिणे जाव ॥ ५४५१॥ 'एष एव' भिक्षुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरं गणमुपसम्पद्यमानानां ज्ञातव्यः । नवरम्-नियमेनैव ताः ससहायाः । यः पुनः ज्ञानार्थं ता आर्यिका नयति स यावदद्यापि न 10 वाचनाचार्यस्यार्पयति तावत् सचित्तादिकं तस्यैवाभवति । अर्पितासु पुनर्वाचनाचार्यस्याभाव्यम् ॥ ५४५१ ॥ कः पुनस्ता नयति ? इत्याह--
पंचण्हं एगयरे, उग्गहवजं तु लभति सञ्चित्तं ।
आपुच्छ अट्ठ पक्खे, इत्थीसत्थेण संविग्गो ॥ ५४५२ ॥ 'पञ्चानाम्' आचार्योपाध्याय प्रवर्तक स्थविर-गणावच्छेदकानामेकतरः संयतीर्नयति । तत्र 20 सचित्तादिकं परक्षेत्रावग्रहवर्ज स एव लभते । निर्ग्रन्थी च ज्ञानार्थ व्रजन्ती अष्टौ पक्षानाच्छति-तत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छं चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनी-गणावच्छेदिका-अभिषेका-शेषसाध्वीर्यथाक्रममेकैकं पक्षमापृच्छति । ताश्च स्त्रीसार्थेन समं संविमेन परिणतवयसा साधुना नेतव्याः ॥ ५४५२ ॥ सूत्रम्
25 भिक्खू य गणाओ अवकम्म इच्छेजा अन्नं गणं संभोगपडियाए उवसंपजित्ताणं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव अन्नं गणं
संभोगवडियाए उवसंपजित्ताणं विहरित्तए; कप्पड़ १°क्ताः, ततो योऽव्यक्तस्य विधिरुक्तः सोऽत्र न भवतीति भावः ॥ कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org